संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

संस्कृतभारतीपञ्जाब-प्रान्ते अभवत् द्विदिवसीया समीक्षायोजनागोष्ठी

प्रेषक:-विनयसिंहराजपूत:।पंजाब।श्रीसरस्वतीसंस्कृतमहाविद्यालयखन्नायां संस्कृतभारतीपञ्जाबस्य द्विदिवसीया प्रान्तसमीक्षायोजनागोष्ठी सञ्जाता । यत्र प्रान्तकार्यकारिणी विभागसंयोजका: जिल्लासमिते: कार्यकर्तार: उपस्थिता: आसन्। गोष्ठ्यां गतवर्षस्य संस्कृतकार्याणां समीक्षां कृत्वा संस्कृतभारतीद्वारा पञ्जाबप्रान्ते आगामिवर्षे आयोज्यमानानां कार्यक्रमाणां योजना कृता।

वक्तव्यम् अस्ति यत् संस्कृतभारती संस्कृतभाषाया: प्रचारकार्यं सततम् अहर्निशं करोति । तदर्थं देशे विदेशे प्रतिप्रान्ते च कार्ययोजनाम् अपि साधयति। अत्र संस्कृतभारत्या: कार्यकर्तृणाम् अपि समर्पणं सततं प्रचलति। प्रतिवर्षं क्रियमाणकार्यस्य समीक्षा भवति तथा च आगामियोजनानुसारेण कार्यम् अग्रे सरति। षडविंशतिदेशेषु संस्कृतभारतीद्वारा संस्कृतसम्भाषणकार्यं कार्यकर्तृणां माध्यमेन
क्रियते । प्रतिवर्षे विदेशे देशे प्रदेशे राज्ये जनपदे च संस्कृतकार्याणां समीक्षा भवति । क्रमेस्मिन्
शनिवासरे रविवासरे सम्पूर्णप्रान्तत: कार्यकर्तार: पंजाबप्रान्ते समीक्षार्थम् एकत्रिता: अभवन् तथा च नूतनवर्षस्य कृते नवयोजना चर्चिता।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button