संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डनैनीतालसंस्कृत भारती

अस्भाभि: सततं संस्कृतेन लोकहितं करणीयं-“श्रीसत्यनारायणभट्ट:” अ.भा.महामन्त्री संस्कृतभारती

हल्द्वान्यां संस्कृतभारत्या: कूर्माञ्चलसम्भागस्य उपवेशनम्

।हल्द्वानी। रविवासरे हल्द्वान्यां अखिलभारत-महामन्त्री श्रीसत्यनारायणभट्ट महोदयस्य प्रवास: सञ्जात: ।एतस्मिन्नेव अवसरे महोदयस्य सानिध्ये कुमौं-सम्भागस्य उपवेशनमपि कृत: ।गोष्ठ्या: आरम्भ: डॉ.हेमन्तजोशीमहोदयेन मङ्गलाचरणेन कृत: । एकलगीतम् अंकित-पाण्डेमहोदयेन कृतम्। अतिथीनां परिचय: तथा च अस्मिन् वर्षे इदानीं पर्यन्तं कुमौ-संभागे यानि अपि कार्याणि जातानि तेषां वृत्तं प्रान्त-सहमन्त्री डॉ. चन्द्रप्रकाश-उप्रेतीमहोदयेन प्रस्तुतम् ।श्रीजगदीशचन्द्रजोशीमहोदयेन प्रचारविभागस्य कार्याणां विषये बोधितम्।

गोष्ठ्या: सञ्चालनं डॉ.जगदीशचन्द्रपाण्डेयमहोदयेन विहितम्। श्रीसत्यनारायणमहोदयेन सह सम्भागे जयमानानां विविधानां कार्यक्रमाणां विषये चर्चा तथा च कार्यकतृणां मार्गदर्शनमपि कृतम्। तै: प्रोक्तम् यत् अस्भाभि: सततं संस्कृतेन लोकहितं करणीयं । संस्कृतप्रचारस्य आधारभूता: वयमेव कार्यकर्तार: अत: वयं मनोयोगेन संस्कृतकार्यं साधयाम: । गोष्ठ्यां श्रीप्रतापसिंहमहोदयस्य सानिध्यमपि प्राप्तम्। अतिथि-सत्कार: जनपदसंयोजकेन डॉ.नीरजजोशीमहोदयेन कृत: । अवसरेsस्मिन् 25 यावत् कार्यकर्तार: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button