उत्तराखण्डकण्वनगरीकोटद्वार

संस्कृतप्रतियोगिताया: पुरस्कारवितरणे महाविद्यालयकोटद्वारे हर्षोल्लास:

।।यशस्वी ओजस्विनी मार्गदर्शिका प्रो. जानकी पंवारः अस्मिन् अवसरे छात्रान् प्रेरयन्ती अवदत् यत् विजयः पराजयः च द्वौ पक्षौ स्तः, परिश्रमं कर्तुम् अस्माकं सर्वेषां कर्तव्यं, परिश्रमः च सफलतायाः कुञ्चिका अस्ति, भवता स्ववक्तव्ये उक्तं यत् एष: अपारानन्दस्य तथा च गौरवस्य विषयः । एकस्मिन् समूहे गानस्पर्धायां भागं गृहीत्वा वर्चस्वं स्थापयितुं यद्यपि अतीव कठिनं भवति तथापि श्रेष्ठं साधितं।। ✓ संस्कृतं प्राचीनभाषया सह निरन्तरं नवायामानां उपस्थापनं करोति - डा.अरुणिमा।। ✓डॉ.चंद्रप्रभाभारती संगीतविभागप्रभारी प्रेरितवती छात्रान् ।। ✓संस्कृतमाध्यमेन स्वकीयजीवनम् उन्नतं कुर्यु: छात्रा:"-कुलदीपमैन्दोला " ।।

कोटद्वारं।राजकीयवरिष्ठमाध्यमिकविद्यालयकोटद्वारे
उत्तराखण्डसंस्कृत-अकादम्या: आश्रयेण द्विदिनात्मिका संस्कृत-प्रतियोगिता आयोजिता अभवत्। 26.09.2023 दिनाङ्के वरिष्ठवर्गप्रतियोगिता च 27.09.2023 दिनाङ्के कनिष्ठवर्गप्रतियोगिता सञ्चालिताभवत्, उभयवर्गस्य प्रतियोगितासु समूहगानं, नृत्यं, श्लोकोच्चारणं, वादविवादः इत्यादयः विविधाः प्रकाराः क्रियाकलापाः आयोजिताः, राजकीयस्नातकोत्तरमहाविद्यालयकोटद्वारस्य छात्राणां स्थानप्राप्तावसरे यशस्वी ओजस्विनी मार्गदर्शिका प्रो. जानकी पंवारः अस्मिन् अवसरे छात्रान् प्रेरयन्ती अवदत् यत् विजयः पराजयः च द्वौ पक्षौ स्तः, परिश्रमं कर्तुं अस्माकं सर्वेषां कर्तव्यं, परिश्रमः च सफलतायाः कुञ्चिका अस्ति, भवता स्ववक्तव्ये उक्तं यत् एष: अपारानन्दस्य तथा च गौरवस्य विषयः एकस्मिन् समूहे गानस्पर्धायां भागं गृहीत्वा वर्चस्वं स्थापयितुं यद्यपि अतीव कठिनं भवति तथापि श्रेष्ठं साधितं।
संस्कृतप्रतियोगितासु राजकीयस्नातकोत्तर- महाविद्यालयकोटद्वारस्य छात्रा: समूहगाने “जय जय हे भगवति सुरभारति” उत्तमलयतालध्वनिना समुचितोच्चारणं कृतवन्त: ।

छात्राः समूहगाने द्वितीयस्थानं प्राप्य न केवलं महाविद्यालये अपितु सर्वत्र स्वस्य विजयध्वजं उत्थापितवन्तः।महाविद्यालयत: बी.ए प्रथमवर्षस्य आयुष:,मनोज:, प्रांजल:, आभाष:, प्रवेश:, डिम्पल:,चारू, कुमकुम इत्यादिभि: प्रतिभाग: कृत:। विजेतार: प्रतिभागिन:प्रो. पंवारवर्याद्वारा अभिनन्दिता: अभवन्। तया प्रेरितं यत् अस्माभिः एतादृशस्पर्धासु भाग: ग्रहीतव्य:, सहभागिताद्वारा एव अन्यकार्याणां ज्ञानं प्राप्नुमः। महोदयया उत्तराखण्डसंस्कृत-अकादम्या:, एतादृश: प्रयासः प्रशंसित: । संस्कृतविभागस्य प्रभारी डा. अरुणिमाद्वारा प्रोत्साहने उक्तं यत् प्रतिभागिताद्वारा जीवने नवीनसंचार: भवति। संस्कृतं प्राचीनभाषया सह निरंतरं नवायामानां उपस्थापनं करोति। डॉ.चंद्रप्रभाभारती संगीतविभागप्रभारी स्वस्य अत्यन्तं व्यस्तं समयं गृहीत्वा छात्रान् गायनशैल्याः सर्वान् पक्षान् शिक्षयति स्म, अग्रे गन्तुं च प्रेरितवती। तस्या: विशेषसहयोगेन कार्यमिदं सफलतामवाप्नोत्। दुगड्डाप्रतियोगितानां खण्डसंयोजक: कुलदीपमैन्दोला अपि प्रतिभागीनां अभिनन्दनं कृत्वा उक्तवान् यत् अस्माकं खण्डशिक्षाधिकारिण: अयाजुद्दीनवर्यस्य मार्गदर्शने प्रतियोगिता: आयोजिता: अभवन्। एताः प्रतिभाः अत्रैव न स्थगितव्याः अपितु संस्कृतेन सङ्गीतेन च अग्रे गच्छेयुः छात्रा: । संस्कृतमाध्यमेन ते अपि स्वकीयजीवनम् उन्नतं कुर्यु: छात्रा: ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button