संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

अमरजीतसिंहमहोदयस्य कुशलमार्गदर्शने संस्कृतभारतीपञ्जाबस्य सहकारेण10 दिवसीय-संस्कृतसम्भाषणवर्गस्य उद्घाटनम्।

वर्गे सरलसंस्कृतवार्तालापस्य अभ्यासः भविष्यति।

प्रेषक:-विनयसिंहराजपूत:।पंजाब।संस्कृतभारतीपञ्जाबस्य सहकारेण संस्कृतविभाग- सर्वकारीमहिन्द्रमहाविद्यालय-पटियाला एवं केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहली चेत्यनयो: संयुक्ताश्रयेण महिन्द्रमहाविद्यालयस्य सभाभवने 10 दिवसीय-संस्कृतसम्भाषणवर्गस्य उद्घाटनकार्यक्रम: अभवत् प्राचार्यस्य अमरजीतसिंहमहोदयस्य कुशलमार्गदर्शने उद्घाटनम्
सञ्जातं । कार्यक्रमस्य आरम्भः दीपप्रज्ज्वालनेन वैदिकमन्त्रपाठेन च अभवत्। कार्यक्रमस्य अध्यक्षता महाविद्यालयस्य उपप्राचार्येण जितेन्द्रजैनेन कृतः। संस्कृतविभागप्रमुखः कवलजीतकौरः स्वागतं कृतवती मुख्यरूपेण केन्द्रीयसंस्कृतविश्वविद्यालयात् विनयसिंहराजपूतः कार्यक्रमे उपस्थितः आसीत्।

सम्भाषणशिबिरकार्यशालायाः रूपरेखां प्रस्तुत्य कार्यक्रमे श्रीविनयसिहेन उक्तं यत् एषा कार्यशाला १० दिवसपर्यन्तं आयोजिता भविष्यति यस्मिन् सरलसंस्कृतवार्तालापस्य अभ्यासः भविष्यति। यस्य माध्यमेन छात्राः अतिरिक्तप्रयत्नेन विना प्रत्यक्षतया संस्कृतभाषायां वार्तालापस्य अभ्यासं करिष्यन्ति। कार्यक्रमे अन्यविभागेभ्यः प्राध्यापकाः यथा आङ्ग्लविभागात् लवलीनमहोदया, राजनीतिविभागात् हरदीपमहोदयः, हिन्दीविभागात् हरिन्दरः, दविन्दरकौर:, गगनदीपकौर:, संगीतविभागात् जगदेवः उपस्थिताः आसन्, धन्यवाद- ज्ञापनं वंदना महोदया कृतवती तथा मञ्च-संचालनं छात्रा जशनजोतकौर: कृतवती। कार्यक्रमे पंजीकृतछात्राः अन्यविभागानां छात्राः च उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button