उत्तराखण्डकण्वनगरीकोटद्वारपंजाब

उत्तराखण्डस्य संस्कृतपरम्पराविषये राजकीयमहाविद्यालय-कोटद्वारे व्याख्यानं सुसम्पन्नं

कोटद्वारं। संस्कृतमासमहोत्सवस्य अवसरे उत्तराखण्डसंस्कृताकादमीद्वारा उत्तराखण्डस्य शास्त्रपरम्परायाः विषये राज्यस्य सर्वेषु जनपदेषु संस्कृतगोष्ठी आयोजिता, यस्मिन् राजकीयस्नातकोत्तरमहाविद्यालयकोटद्वारे 22.09.2023 दिनाङ्के *उत्तराखण्डस्य संस्कृतपरम्परा* इत्यस्मिन् आधारितं संस्कृतगोष्ठी आयोजितम्।

संगोष्ठ्याः आयोजिका डॉ. रोशनी असवालवर्या अवदत् यत् वैदिककालात् आरभ्य श्रावणमासस्य पूर्णिमादिने बालकानां विद्यालये प्रवेशः भवति स्म, अयं दिवसः संस्कृतदिवसरूपेण आचर्यते। संस्कृतस्य प्रचारार्थम् अस्याः उपक्रमस्य अन्तर्गतं एषा संगोष्ठी आयोजिता।

मुख्यवक्तृत्वेन प्राध्यापकराजेश्वरप्रसादमिश्रः कुरुक्षेत्रविश्वविद्यालयत: गोष्ठ्यां स्वव्याख्याने उत्तराखण्डस्य गौरवपूर्णं समृद्धं च संस्कृतसाहित्यस्य विस्तरेण परिचयं कृतवान् तथा च येषां संस्कृतसेवाप्रधानकविनां जन्मभूमिः कार्यस्थानं च उत्तराखण्डम् आसीत्, तेषां संस्कृतसेवाप्रधानानाम् अपि अतीव गभीरतया परिचयं कृतवान् । विशेषातिथिरूपेण महाकविः आचार्यनिरञ्जनमिश्रः स्वसम्बोधने उत्तराखण्डस्य संस्कृतलेखकानां परिचयं कृत्वा तेषां शास्त्रीयविशेषतां प्रकाशितवान्, एतेषां कविनां विशिष्टशैल्याः विषये अपि सूचनां दत्तवान् ।

संगोष्ठ्या: मुख्यातिथि: निदेशक: उच्चशिक्षा-उत्तराखंडत: प्रो.सी.डी.सूंठाद्वारा अभिनन्दनसन्देशाः प्रेषिताः। सर्वेषाम् अतिथिनां स्वागतं कुर्वन्ती कार्यक्रमस्य अध्यक्षा जानकी पंवारवर्या महाविद्यालयस्य प्राचार्या स्ववक्तव्ये उक्तवती यत् वक्तृभिः दत्तव्याख्यानानां छात्राणां बहु लाभः स्यात्, संस्कृतभाषा प्राचीनभाषा इति कारणतः अस्मिन् विषये अपि तथैव प्रासंगिका अस्ति वर्तमाने अधिक प्रचारः भवितुमर्हति।अस्मिन् अवसरे राज्यसंयोजकः श्री हरीशचन्द्रगुरुरानी इत्यनेन अपि स्वस्य परिचयात्मके सम्बोधने अकादम्याः कार्याणां उल्लेखः कृतः। गोष्ठ्या: सहसंयोजकः डॉ. संजीवकुमारः सर्वेभ्यः अतिथिभ्यः सर्वेभ्यः च आभारं प्रकटितवान् । संगोष्ठ्यां गणमान्यजनाः च कुमाऊँ-विश्वविद्यालयत: विभागाध्यक्ष: प्रो. जयातिवारी, रा.म.वि.गरुडत: प्राचार्या प्रो. प्रेमलता कुमारी, आचार्य: जगदीशसेमवाल:, श्री रोशनगौड:तथा राजकीयमहाविद्यालयस्य सर्वे प्राध्यापका: एवं संस्कृतछात्रा: उपस्थिता: आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button