संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारती

अस्माकं राष्ट्रस्य गौरवं संस्कृतं—————- “जनपदाधिकारी श्री अभिषेकरुहेला”

उत्तरकाश्यां भव्यशोभायात्रा जनपदसम्मेलनं, वर्गसम्पूर्ति: च

उत्तराखण्डं।संस्कृतभारती-उत्तराञ्चलस्य गढवालसम्भागस्य प्रबोधनवर्ग: मंगलवासरे सम्पूर्तिं सम्प्राप्त: । सम्पूर्ते: शुभारम्भ: दीपप्रज्ज्वालनेन सहैव प्रारभत्। प्रान्तमन्त्रिणा श्रीगिरीशतिवारीवर्येण संस्कृतभारत्या: विवरणं प्रस्तुतं यत् कथं संस्कृतभारत्या: सम्भाषणजनान्दोलनम् प्रारभत् अद्य तस्य प्रतिफलं यत् देशविदेशे च दशकोटिजना: संस्कृतेन वक्तुं समर्था: सन्ति । एतादृशवर्गेण कोपि जन: संस्कृतवक्तुं समर्थ: भवति ।

वर्गस्य अत्रत्य प्रथम: अवसर: यदा पर्वतीयक्षेत्रेषु उत्तरकाशीसदृशे शीतप्रभावितजनपदे प्रात:कालत: रात्रिपर्यन्तं दशदिनांकपर्यन्तं संस्कृतवातावरणं समुत्पन्नम् अभवत् । मध्ये विशेषकार्यक्रम: श्रीराममन्दिरस्य प्राप्त: अक्षतवितरणकार्यक्रम: सस्कृतमयवातारणे जयघोषै: सह गृहं गृहं प्रति शोभायात्रा विशिष्टा आसीत् । मंगलवासरे उत्तरकाश्याम् एव श्रीविश्वनाथसंस्कृतविश्वविद्यालये संस्कृतभारत्या: जनपदसम्मेलनम् अपि अभवच्च सायंकाले नगरे सर्वै: शोभायात्राया: भव्यायोजनं जातम् । दर्शकै: संस्कृतशोभायात्रायां पुष्पवृष्टि: कृता । जयतु जयतु संस्कृतजयघोषध्वनिना सह उत्तरकाशीनगरं गुञ्जामाना अभवत्।

मुख्यातिथिरूपेण जनपदाधिकारी श्री अभिषेकरुहेला अवसरेस्मिन् उक्तवान् यत् भवतां भविष्यम् उज्ज्वलं भवतु । यद्यपि वयं विद्यालयेषु संस्कृतम् पठाम: तथापि वयं संस्कृतेन सम्भाषणं कर्तुं न शक्नुम: परन्तु संस्कृतभारतीद्वारा यत् सम्भाषणं सञ्चाल्यते सा पद्धति: सम्यक् अस्ति । अतिसरलरूपेण अत्र आगत्य सर्वे संस्कृतेन वदन्ति । प्रधानमन्त्री अपि संस्कृतविषये प्रेरितवान् यत् वयं सस्कृतेन वदाम: संस्कृतश्लोकान् स्मरणं कुर्म:। वयम् भारतस्य संस्कृतिं संस्कृतं च विश्वे प्रसारयाम: । अस्माकं राष्ट्रस्यं गौरवं संस्कृतं । तेनैव समग्र वसुधा कुटुम्ब: इव

विशिष्टातिथि: सुधागुप्ताद्वारा कथितं यत् आत्मरक्षाया: कृते यथा अस्माकं प्रयत्नं भवति तथैव अस्माकं संस्कृतस्य रक्षणम् अस्माकं हस्ते अस्ति। प्रान्तमन्त्रिणा संस्कृतभारत्या: परिचयं लक्ष्यं सर्वेषां पुरत: उपस्थापितम् ।

वर्गाधिकारी एवं कार्यक्रमाध्यक्ष: श्री राधेश्यामखण्डूरी सर्वान् सम्बोधितवान् यत् अग्रेपि लाभान्विता: सम्भाषिणार्थिन: समाजहिताय संस्कृतस्य प्रचारप्रसारं करिष्यन्ति तु समाज: प्रबल: भविष्यति । स्वाध्यक्षत्वे श्रीखण्डूरी सर्वेषां कृते वर्गस्य सफलतायै शुभकामनां दत्तवान्। सारस्वतातिथिरूपेण वीरराघवखण्डूरी स्वशुभकामनामयच्छत् । वर्गस्य अनुभवकथनं शोधार्थीश्वेतारावतद्वारा च विश्वेश्वरद्वारा प्रस्तुतं च स्वागतगीतं शिवानी रमोला सुजाता दिव्या च स्वागतगीतेन स्वागतं कृतवत्य: । लघुनाटके हैप्पी पारितोष: प्राची साधना वैभव: दीपांशुश्च संस्कृतज्वरनाटकाभिनयेन उत्तमसन्देशं प्रसारितवन्त: ।

कार्यक्रमस्य सञ्चालनं वर्गस्य शिक्षणप्रमुख: डा.प्रदीपसेमवाल: कृतवान्। वर्गस्य आदर्शशिक्षक: कुलदीपमैन्दोला समागतानाम् सर्वेषां धन्यवादं ज्ञापितवान् । सर्वविध: सहयोग: प्रान्तसंठनमन्त्रिण: श्रीगौरवशास्त्रिण: कार्यकर्तृभि: सहयोगेन सर्वेषाम् कृते समुलब्ध: कृत: । कार्यक्रमे रमाडोभाल:, प्रो. अञ्जना , ममताभट्ट: , महाविद्यालयस्य प्राचार्य: द्वारिकाप्रसादनौटियाल: डॉ. प्रदीपसेमवाल:, डॉ. अनिलबहुगुणा, शुभम:, शिवानी , नरेशभट्ट:, अभिषेकनौटियाल: , लवलेशदुबे, दातारामपुर्वाल: च आदय: कार्यकर्तार: संस्कृतानुरागिण: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button