संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

अर्जुनः गीतायां मानवसमस्यानां प्रतीकः— “डा.नरेन्द्रपाण्डेय:”

श्रीमद्भगवद्गीतायां प्रबन्धनसूत्रविषये टिहरीजनपदे अभवत् संगोष्ठी

उत्तराखण्डं। टिहरी।उत्तराखण्ड-संस्कृत-अकादमी इत्यस्य आश्रयेण गीताजयन्तीम् अवलम्ब्य श्रीमद्भगवद्गीतामासमहोत्सवस्य सन्दर्भे टिहरीजनपदे ११-०१-२०२४ दिनाङ्के अपराह्णे २:०० तः ४:०० वादनपर्यन्तं गूगलमीट्-ऑनलाइन इत्यनेन माध्यमेन संस्कृतगोष्ठ्याः आयोजनम् सञ्जातं । संस्कृतगोष्ठ्याः मुख्यविषयः “श्रीमद्भागवद्गीतायां प्रबन्धनसूत्राणि” आसीत् । जनपदसंयोजकस्य श्रीमधुसूदनसतीवर्यस्य निर्देशने पतञ्जलिगुरुकुलस्य छात्राद्वारा वैदिकमंगलाचरणेन कार्यक्रम: प्रारभत्। उत्तराखण्डसंस्कृत-अकादम्या: सचिवस्य श्री एस.पी.खालीवर्यस्य गरिमामयी-उपस्थितौ राज्यसंयोजक: डॉ. हरीशचंद्रगुरुरानी परिचयात्मकं सम्बोधनम् कृतवान् । कार्यक्रमस्य मुख्यवक्ता डॉ. नरेन्द्रकुमारपाण्डेय: (सहायकः प्राध्यापकः संस्कृतविभागः, हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयधर्मशालात:) तथा च सहवक्ता डॉ. ओमशर्मा आसीत् । मुख्यवक्ता डॉ. नरेन्द्रपाण्डेय: इत्यनेन उक्तं यत् श्रीमद्भगवद्गीतायां जीवने उपयोगीविविधानि प्रबन्धनसूत्राणि सन्ति तथा च अर्जुनः गीतायां मानवसमस्यानां प्रतीकः अस्ति। सहवक्ता डॉ. ओमशर्मा स्ववक्तव्ये स्पष्टीकृतवान् यत् यद्यपि श्रीमद्भागवतगीतायां प्रबन्धसूत्राणि अस्माकं कृते स्पष्टतया न दृश्यन्ते, परन्तु यदा वयं गम्भीरतापूर्वकं विषयं चिन्तयामः ध्यानं च कुर्मः तदा मुख्यतया गीतायाः द्वितीयः अष्टादशः च अध्यायः प्राप्यते। प्रबन्धकीयसामग्री 1000 तमे वर्षे उपलभ्यते। कार्यक्रमे विशेषातिथिरूपेण उपस्थितः राकेशशर्ममहोदयः गीतायां उल्लिखितानां वक्तव्यानाम् अनुकरणं करणीयम् इति उक्तवान्, मुख्यातिथिरूपेण उपस्थितः डॉ. प्रभाकरजोशी इत्यनेन वैश्विकाय गीतायाः उपयोगितायाः विषये प्रकाशः कृतः । कार्यक्रमस्य अध्यक्षः डॉ. सीतारामनैथानी इत्यनेन कार्यक्रमाय सर्वेभ्यः आशीर्वादः दत्तः तथा च गीतायाः ज्ञानं सामान्यजनपर्यन्तं प्रसारयितुं बलं दत्तम्। कार्यक्रमस्य अन्ते सहजिलासौयोजक: श्री योगेन्द्रपालः सर्वेषां गणमान्यजनानाम् आभारं कृतवान्। कार्यक्रमे श्री गिरीशतिवारी, साध्वी, देवश्रुति:चादय: विशिष्टसदस्या: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button