संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारती

ज्ञानं नास्ति तदपि श्रवणेन भाषणेन च संस्कृतभाषा आयाति- —————-“राकेशशर्मा”

संस्कृतभारत्या: सम्भाषणशिबिरान्दोलनेन दशकोटिजना: संस्कृतेन वक्तुं समर्था: , 27 देशेषु संस्कृतकार्यं

उत्तराखण्डं। उत्तरकाश्या: जायमाने प्रबोधनवर्गे तृतीयदिवसे श्रीराकेशशर्ममहोदय: सम्भाषणकौशलं शिक्षितवान् । तेनोक्तं यत् तरणं यथा सहजतया जायते मशकमारणं यथा सहजतया जायते तथैव सम्भाषणम् अपि सहजतया जायते । पुस्तकपठनेन एव भाषा न आयाति । भाष्यते इति भाषा । भाषा यद्यपि प्रथमावसरे न आयाति परन्तु अभ्यासद्वारा भाषा आयाति । यदा वयं भाषाकथनस्य प्रयासं कुर्म: तदा अस्माकं मुखे भाषा आयाति अत: यदि वयं प्रतिदिनं संस्कृतं वदाम: अभ्यासं कुर्म: तदा सम्यक्तया संस्कृतं वयं वक्तुं समर्था: । तै: प्रोक्तं यत् ज्ञानम् नास्ति तदपि श्रवणेन भाषणेन च संस्कृतभाषा आयाति । तथा च भाषणेन पठनेन लेखनेन अपि भाषाकौशलम् इतोपि वर्धते । नियमज्ञानम् अस्ति परञ्च प्रयोग: नास्ति तु भाषा नायाति ।

चतुर्थदिवसे प्रान्तमन्त्री श्रीगिरीशतिवारी सम्भाषिणार्थिनाम् सम्बोधितवान् तै: शिक्षणाभ्यासे बहूनाम् सम्भाषणं वर्धितं। अवसरेस्मिन् तिवारीवर्येण उक्तं यत् संस्कृतभारत्या: इदानीं उत्तराखण्डे वर्गद्वयं प्रचलति । एक: प्रबोधनवर्ग: कूर्मविभागान्तर्गतं हल्द्वान्यां प्रचलति । द्वितीय: गढ़वालविभागान्तर्गतम् उत्तरकाश्यां प्रचलति। वर्गद्वये सर्वेपि शैत्यकाले गृहं परित्यज्य आवासीयसंस्कृतवर्गे संस्कृतेन वदन्ति।
तै: प्रोक्तं यत् वयम् एवम्प्रकारेण संस्कृतं प्रतिदिनं वदाम: तु अन्येपि संस्कृतं वक्तुं शक्नुवन्ति । संस्कृतं सम्भाषणेन एव जीवित:, रक्षित: च भविष्यति । अद्य संस्कृतभारत्या: शिविरान्दोलनेन दशकोटिजना: संस्कृतेन वक्तुं समर्था: सन्ति । अत्र कार्यकर्तृणां समर्पणं कार्यं च सदैव भवति तेन अद्य देशे विदेशेपि संस्कृतकार्यं जायमानम् अस्ति , विदेशे अपि संस्कृतं वक्तुं जना: समर्था: अभवन् । 27 देशेषु संस्कृतभारत्या: कार्यं जायमानम् वर्तते ।

प्रान्तसंगठनमन्त्री श्रीगौरवशास्त्री संस्कृतप्रचारमभिलक्ष्य उक्तवान् यत् आधुनिकसमये वयं सर्वे भारतस्य गौरवं संस्कृतेन वर्धयाम: । वर्गेस्मिन् राधेश्यामखण्डूरी, च वर्गाधिकारी , सर्वव्यवस्थाप्रमुख: डॉ. द्वारिकाप्रसादनौटियाल: शिक्षक: कुलदीपमैन्दोला, डॉ. प्रदीपसेमवाल:, डॉ. अनिलबहुगुणा, शुभम:, शिवानी , नरेशभट्ट:, अभिषेक: , दातारामपुर्वाल: च आदय: कार्यकर्तार: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button