संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देश

उप-राष्ट्रपति: जगदीप-धनखड़: अद्य हिमाचल-प्रदेशस्य एक-दिवसीय यात्रां सम्पादिवान् ।

उप-राष्‍ट्रपति: जगदीप-धनखड़: अद्य हिमाचल-प्रदेशस्य दिवसीय यात्रां विहितवान्। असौ अद्य हमीरपुर-मध्ये राष्‍ट्रीय प्रौद्योगिकी संस्‍थानस्य, करिअर पॉइंट इत्याख्यस्य विश्‍वविद्यालयस्य च विद्यार्थिभि: साकं सप्त-चत्वारिंशत्-द्वि-सहस्र-तम-वर्ष- पर्यन्तं भारतं विकसितं कर्तुं युवजनानां भूमिका-विषये चर्चा: विहितवान्।

एतस्मिन् अवसरे तत्र राज्‍यपाल: श्रीप्रताप शुक्‍ल:, सूचना-प्रसारण-युव-कार्यक्रम-खेल-मन्त्री अनुराग-सिंह-ठाकुर:, राज्यस्य मन्त्रिमण्डलीय-मन्त्री राजेश: धर्मानी चापि उपस्थिता: आसन्। श्रीधनखड़: हिमाचल-प्रदेशे पञ्च-शत-तमस्य शिक्षा-संवर्धन-केन्द्रस्य औद्घाटनिक-समारोहे मुख्यातिथित्वेनापि उपातिष्ठत।

उपराष्ट्रपति: उदग्र विमानेन एन.आई.टी. इत्यस्य समीपे अवतीर्ण:। यत्र तस्य गार्ड ऑफ ऑनर इति राजकीय सम्मानपूर्वकं अभिवादनं स्वागतं च जातम्। तदनु असौ दो-सड़का इति स्थले एकस्मिन् कार्यक्रमे भागं भजितुं यातायात-वाहन-मार्गेण एव प्रातिष्ठत। “दो-सड़का पुलिस लाइन” मैदान इत्याख्ये प्राङ्गणे अनुष्ठिते कार्यक्रमे पारेसहस्रं विद्यार्थिन: शिक्षकाश्च एकत्रीभूता: आसन्। अस्मिन् कार्यक्रमे हमीरपुर-संसदीय-क्षेत्रस्य नव-सहस्र-मिता: छात्रा:, पञ्चशत-मिता: शिक्षकाश्च उपस्थिता: आसन्। इत: प्राग् उपराष्ट्रपति: श्रेष्ठसंस्थाया: पञ्च-शत-तमं केन्द्रम् अपि विधिवद् उद्घाटितवान्। अथ च तत्र विभिन्न-लोक-कलाकारा: निज मनोमोहक-प्रस्तुत्या जनानां मनोरञ्जनं कृतवन्त:। उपराष्ट्रपति: द्वि-वादने एन.आई.टी. हमीरपुरे आयोजिते कार्यक्रमे प्रतिभागं कृत्वा प्राय: सपाद चतुर्वादने चंडीगढ़म् प्रत्यावर्तितवान्

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button