संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारती

संस्कृतं प्रत्येकक्षेत्रस्य भाषा च वैज्ञानिकभाषा—–उपजिल्लाधिकारी उत्तरकाशी “श्रीब्रजेशकुमारतिवारी”

संस्कृतभाषा साधारणजनानां भाषा सम्भाषणद्वारा एव भवितुं शक्नोति - 'विधायक: श्रीसुरेशचौहान:'

उत्तराखण्डं। उत्तरकाशी।संस्कृतभारत्या: गढवालसम्भागस्य आवासीयप्रबोधनकक्षायाः द्वितीयदिने उत्तरकाश्या: उपजिल्लाधिकारी श्रीब्रजेशकुमारतिवारी छात्राणां मध्ये गत्वा सर्वान् छात्रान् प्रोत्साहितवान्। संस्कृतभारत्याः प्रान्तीयसङ्गठनमन्त्री गौरवशास्त्री, डॉ. अरविन्दनारायणमिश्रः च संस्कृतभारतीग्रन्थं प्रस्तूय अभिनन्दनं कृतवन्तौ। उपजिलाधिकारिणा श्रीतिवारीवर्येण अवसरेस्मिन् सम्बोधितं यत् संस्कृतं न केवलं संस्कारस्य भाषा अपितु प्रत्येकस्य क्षेत्रस्य भाषा अस्ति, संस्कृतं सम्पूर्णतया वैज्ञानिकभाषा अस्ति तथा च संस्कृताध्ययनेन भवन्त: प्रशासनिकसेवासहितं प्रत्येकक्षेत्रे संस्कृतद्वारा देशस्य सेवां कर्तुं शक्नुवन्ति।

श्रीविश्वनाथसंस्कृतमहाविद्यालये प्रबोधनवर्गस्य गढवालविभागस्य प्रायः सर्वेभ्यः जनपदेभ्यः १०० छात्राः संस्कृतभाषां शिक्षन्ते। अस्मिन् वर्गे प्रातःकाले जागरणात् आरभ्य रात्रौ निद्रां गमनपर्यन्तं ते निरन्तरम् संस्कृतभाषायां वार्तालापं कुर्वन्ति तथा च क्रीडायाः माध्यमेन ते संस्कृतभाषां शिक्षन्ति। वयं शिक्षमाणाः स्मः यत् क्रीडाद्वारा कथं संस्कृतम् आयाति । वर्गेस्मिन् राधेश्यामखण्डूरी, च वर्गाधिकारी , सर्वव्यवस्थाप्रमुख: डॉ. द्वारिकाप्रसादनौटियाल: शिक्षक: कुलदीपमैन्दोला, डॉ. प्रदीपसेमवाल:, नागेन्द्रव्यास:, डॉ. आनंदजोशी, डॉ. अनिलबहुगुणा, शुभम:, शिवानी , नरेशभट्ट:, अभिषेक: , लवलेशदुबे च आदय: आसन् ।

द्वितीयदिवसस्य द्वितीयसत्रे श्रीसुरेशचौहान: गंगोत्रीविधानसभाया: विधायक: वर्गं सम्बोधितवान् यत् संस्कृतभाषा साधारणजनानां भाषा सम्भाषणद्वारा एव भवितुं शक्नोति । सहैव पूर्वनगरपालिकाध्यक्षा सुधागुप्ता च अन्ये गणमान्या: समुस्थिता: अभवन्। सायंकाल सत्रे डा. अरविन्दनाराणमिश्रवर्येण वर्गार्थिन: सम्बोधिता: यत् सम्भाषणाय भाषा आवश्यकी च भाषां बिना न कश्चन समर्थ:।
मानवीयजीवा: वयं सम्भाषणशीला: पशूनाम् अपि भाषा परन्तु सुसंस्कृता भाषा संस्कृतं मानवानाम् एव, एवं च कालखण्डे भाषान्तरं भवति। विचाराणां विनिमय: भाषाद्वारा एव भवति।
संस्कृतं गौरवाय विषयोयम् अस्माकमिति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button