संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

विज्ञानस्य सर्वेषां सूत्राणां मूलं संस्कृते एव निहितं वर्तते – डॉ. वाचस्पति: मिश्र:

वार्ताहर:-सचिनशर्मा,मोदीनगरं,गाजियाबाद:, उ.प्र.। संस्कृतभारती मेरठप्रान्तेण “प्रेसीडेन्सीपब्लिकस्कूल” इत्यस्मिन् विद्यालये शताब्दीनगरे संस्कृतं जनभाषां कर्तुम् आन्दोलनाय सप्तदिवसीय: भाषाप्रबोधनवर्ग: आयोजित:। वर्गेsस्मिन् मेरठम्, सहारनपुरम् , मुरादाबादम् च इत्यादिनां मण्डलानां अनेकेभ्य: स्थानेभ्यः प्रायश: शताधिकाः प्रतिभागिनः प्रतिभागं कृतवन्तः।

वर्गेsस्मिन् संस्कृतभाषां व्यवहारिकीभाषां कर्तुं वार्तालापस्य भाषां कर्तुं च अभ्यासः कृतः। वर्गे आगतानां प्रतिभागिनां कृते संस्कृतं विहाय अन्यया भाषया वार्तालापाय अवसरः न भवति, अनेन कारणेन शिक्षार्थिनां विचारः संस्कृतेन एव सम्भवति । अस्य वर्गस्य समापनकार्यक्रमे शिक्षार्थिभिः वर्गे प्राप्तकौशलानां प्रदर्शनं नाटकेन अनुभवकथनेन सम्भाषणेन च इत्यादि माध्यमेन कृतम्।
वर्गाधिकारी आई-आई-टी-रुडकीतः सेवानिवृत्त: प्रो.दिनेशकुमारमहोदयेन संस्कृतव्यवहारिकी भाषा भवेत् इति एष: आग्रहः कृतः। संस्कृतभारती मेरठप्रान्तस्य अध्यक्ष: प्रो० पवनकुमारशर्मा उक्तवान् यत् संस्कृतं केवलं भाषा एव न अपितु जीवनदर्शनं वर्तते। संस्कृतं विश्वस्य सर्वस्पष्टी भाषा वर्तते, यस्मिन् पूर्णविरामः, अर्धविरामः, विसर्गः, अनुस्वारः, हलन्तादीनां सर्वेषां स्वस्य उच्चारणस्थानं वर्तते। अस्य स्पष्टताया: कारणेन नासा इत्यादि संस्था AI (ए आई) अनेकायै विधायै भविष्ये संस्कृतभाषामेव अनिवार्यतया मन्यन्ते। संस्कृते एकस्य शब्दस्य एव अनेकानां पर्यायशब्दानां अर्थः भिन्नः विशिष्टश्च भवति। संस्कृतभाषायाः पञ्चशताधिकशब्दाः विश्वस्य अन्यासु भाषासु गताः। आंग्लभाषायां गणना ट्रिलियन पर्यन्तं भवति परञ्च संस्कृते तु महाशंख: पुनश्च अनन्त पर्यन्तं भवति। बिग बैंग थ्योरि इत्यस्य सूत्रं ऋग्वेदस्य नासदीयसूक्ते, हिरण्यगर्भसूक्ते पुरुषसूक्ते च अस्ति। नासदीयसूक्ते सृष्ट्योत्पत्तिः, हिरण्यगर्भसूक्ते सृष्टेः परवर्तीविकासः पुरुषसूक्ते च सामाजिकविकासस्य वर्णनमस्ति। सर्वे शिक्षार्थिनः संस्कृतेन वार्तालापं कर्तुं तथा अन्यान् अपि बोधयितुं शपथं गृहीतवन्तः। क्षेत्रसम्पर्कप्रमुख: डॉ.वाचस्पतिमिश्रवर्य: अपि सर्वेषां छात्राणां मार्गदर्शनं कृतवान्।
प्रातःकाले दीक्षान्तसमारोहेण सह वर्गः समाप्तः।

वर्गेsस्मिन् प्रान्तसङ्घटनमन्त्री योगेशविद्यार्थी,प्रान्तमन्त्री प्रभाकरमणित्रिपाठी, प्रशिक्षणप्रमुख: सचिनशर्मा , प्रान्तसहमन्त्री डॉ. संदीपकुमार: ,डॉ.लक्ष्मणसिंह: ,पुनीत-आर्य:, मनेन्द्र:,आकाश:, रुद्रांश:, रक्षिता, रामांश:,विनीत:, दीपांशी, खुशी, तरुण:, रंगराजन, नैन्सी, अंश:, मोहित:, अभिषेक:, कोमल इत्यादि शिक्षकै: सह शताधिकाः छात्रा: अपि उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button