पंजाब

संस्कृतपञ्जाबीभाषायाः महान् सम्बन्धः-डॉ. वीरेन्द्रकुमार:

✓पटियाला-नगरस्य मुलतानी-महाविद्यालये अनौपचारिक-संस्कृत-शिक्षण-केन्द्रस्योद्घाटनं तथा च संस्कृत-संभाषण-शिविर-समापन-कार्यक्रमः जातम् ।। ✓ छात्राणां कृते संभाषणशिविरस्य प्रमाणपत्राणि वितरितानि

अद्य पटियाला-नगरस्य मुलतानी-महाविद्यालयस्य प्राचार्यस्य डॉ. खुशविंदरकुमारस्य समर्थ-मार्गदर्शने अनौपचारिक-संस्कृत-शिक्षण-केन्द्रस्योद्घाटनं तथा च संस्कृत-संभाषण-शिविर-समापन-कार्यक्रमः सभागारे जातम्। पंजाबीविश्वविद्यालयः, पटियाला-संस्कृतविभागतः डॉ. वीरेन्द्रकुमार: मुख्यवक्तारूपेण उपस्थित: असीत। कार्यक्रमस्य शुभारंभः ध्येयमन्त्रेण अभवत्। मंचसंचालनं हिंदीविभागस्य डॉ. रुपिंदर: शर्मा कृतवान्। अनौपचारिकसंस्कृतशिक्षकः विनयसिंहराजपूतसहितं अन्यविभागानाम् अध्यापकाः छात्राश्च उपस्थिताः आसन्। उपस्थितातिथिभिः छात्राणां कृते संभाषणशिविरस्य प्रमाणपत्राणि वितरितानि। अवसरे खुशविंदरकुमारेणोक्तं यत् छात्राः एतावन्तः भाषाः शिक्षन्ति यत् ते जीवने एतादृशीम् ऊर्ध्वतां प्राप्नुवन्ति। सः अवदत् यत् नूतनशिक्षानीत्याः अन्तर्गतम् अपि संस्कृतं महत्त्वपूर्णं अस्ति। मुख्यवक्ता डॉ. वीरेन्द्रकुमारः उक्तवान् यत् पञ्जाबस्य भूमौ संस्कृतस्य विशालं लौकिकसाहित्यं लिखितम् । अत्र संस्कृतस्य बहवः विद्वांसः अभवन्, तत्र च संस्कृतपञ्जाबीभाषायाः महान् सम्बन्धः। संस्कृतेन सह अपि अन्तस्सम्बन्धः अस्ति, यः नूतनानां शब्दानां निर्माणे अपि च भारतीयभाषासु शब्दानां उत्पत्तिं कर्तुं साहाय्यं करोति। यदि विज्ञानगणितयोः छात्राणां नित्यं कृते संस्कृतस्य ज्ञानं भवति संस्कृते नूतनाः प्रयोगाः क्रियन्ते, तदा भारतं विकासस्य नूतनपदे नेतुं शक्नुमः।

अध्यापकः विनयः अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य परिचयं कुर्वन् सर्वेभ्यः सहभागिभ्यः छात्रेभ्यः अभिनन्दनं कृतवान् डॉ. रूपिन्दरः अतिथिभ्यः धन्यवादं दत्त्वा कल्यामंत्रेण सह कार्यक्रमस्य समापनम् कृतवान् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button