संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशदेशसंस्कृत भारती

संस्कृतकार्यक्रमाः संस्कृतेन एव भवेयुः च सर्वाणि अपि संस्कृतेन कर्तुं शक्यानि–“चमूकृष्णशास्त्रिवर्य:”

संस्कृतम् एव सर्वश्रेष्ठम् उपकरणम् । विश्वे यत्र कुत्रापि कस्याश्चित् भाषायाः प्रचारः पुनरुज्जीवनं वा जातं चेत् तद् कार्यं तत्तद्भाषामाध्यमेन एव अभवत्

संस्कृत भारती। संस्कृतं संस्कृतेन। संस्कृतेन इत्यत्र करणे तृतीया विभक्तिः। संस्कृतप्रचाराय संस्कृतम् एव सर्वश्रेष्ठम् उपकरणम्। पठनं संस्कृतेन। भाषणं संस्कृतेन। लेखनं संस्कृतेन। पाठनं संस्कृतेन। सम्पर्कः संस्कृतेन। मनोरञ्जनं संस्कृतेन। गृहं संस्कृतेन। कार्यालयः संस्कृतेन। कार्यक्रमः संस्कृतेन। सन्देशः संस्कृतेन। पत्रं संस्कृतेन। एतेषु कतिचन इदानीं शक्यानि चेत् कतिचन अनन्तरं शक्यानि परन्तु सर्वाणि अपि संस्कृतेन कर्तुं शक्यानि।

कार्यक्रमाणां सञ्चालनसमये अतिथयः संस्कृतं न जानन्ति इति चिन्तयन्तः वयं संस्कृतं परित्यज्य अन्यभाषया कार्यक्रमं सञ्चालयामः अथवा भाषाद्वयेन सञ्चालयामः। आगताः अतिथयः तु संस्कृतेन इच्छन्ति। अस्माकमेव सङ्कोचः। संस्कृतकार्यक्रमाः संस्कृतेन एव भवेयुः। एवं संस्कृतेन इत्यस्य शतशः अंशाः सन्ति। संस्कृतेन इति एषः दुराग्रहः न। अपि तु कालोचितः कार्यसाधनोपायः, संस्कृतस्य अवस्थानस्य उपायः, संस्कृतस्य अस्तित्वस्य एव विषयः च।

विश्वे यत्र कुत्रापि कस्याश्चित् भाषायाः प्रचारः पुनरुज्जीवनं वा जातं चेत् तद् कार्यं तत्तद्भाषामाध्यमेन एव अभवत्। अन्यभाषामाध्यमेन काचित् अपि भाषा शिक्षिता प्रसारिता वा इति उदाहरणम् एव नास्ति। अद्य विश्वे सर्वेषु देशेषु विदेशीयभाषाणां पठनस्य महान् उत्साहः दृश्यते। सर्वत्र विदेशीयभाषा अपि तया भाषया एव पाठ्यते न तु अन्यभाषया। किं पुनः संस्कृतस्य पाठनं प्रचारः च संस्कृतेन न भवेत् ?

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button