संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

संस्कृतभारतीपञ्जाबप्रान्ते खन्नामहाविद्यालये ७ दिवसीयः प्रबोधन-वर्गः

संस्कृतभारतीपञ्जाबप्रान्तेन १४ जनवरीतः २२ जनवरी २०२४ पर्यन्तं “श्रीसरस्वतीसंस्कृतमहाविद्यालये”, खन्ना इत्यत्र आवासीयप्रबोधनवर्गः आयोजितः। यस्य औपचारिकं उद्घाटनसत्रम् अद्य आसीत्। उद्घाटनकार्यक्रमे संघस्य जिलाबौद्धिकप्रमुखः महाविद्यालयसमितेः उपाध्यक्षः च श्री मनोजतिवारी, संस्कृतभारतीपञ्जाबस्य प्रान्तमन्त्री संजीवश्रीवास्तवः , महाविद्यालयस्य प्राचार्यः राजेन्द्रकुमारः , दर्शनशास्त्रविभागस्य प्राध्यापकः डॉ. हेमानन्दः महोदयः च उद्घाटनकार्यक्रमे उपस्थिताः आसन्। अस्मिन् अवसरे मुख्यातिथिः मनोजः तिवारी महोदयः सर्वेषां प्रतिभागिनां, शिक्षकाणां, प्रबन्धकानां च हार्दिकं स्वागतं कृत्वा स्वस्य प्रसन्नतां प्रकटितवान् तथा च सर्वेभ्यः शिविरार्थिभ्यः अनुरोधं कृतवान् यत् ते अस्य अवसरस्य पूर्णं लाभं गृहीत्वा भविष्ये संस्कृतस्य प्रसारणे स्वस्य भूमिकां सुनिश्चितं कुर्वन्तु तथा च भारतस्य ज्ञानपरम्परां अग्रे नयन्तु। अस्मिन् अवसरे महाविद्यालयस्य अन्ये प्राध्यापकाः अपि उपस्थिताः आसन् । अस्मिन् वर्गे ७ दिवसान् यावत् आवासीयरूपेण भिन्न-भिन्न-सत्रेषु संस्कृत-सम्भाषणस्य अभ्यासः भविष्यति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button