संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशराजनीतिविदेश

श्रीलंकादेशस्य नौसैन्य-बलेन सामुद्रिक-सीमान्तरे मत्स्यमारण-प्रसङ्गे अष्टादश भारतीया: धीवरा: नगडीकृता:,

देश/विदेश। भारतीय मत्स्यमारकेषु धीवरेषु श्रीलंका-देशेन कृतं कार्यान्वयनम् , अष्टादश-मिता: धीवरा: निगडिता:। श्रीलंकादेशस्य नौसैन्य-बलेन तस्य सामुद्रिक-सीमान्तरे कथित-रूपेण मत्स्यमारण-प्रसङ्गे इमे अष्टादश भारतीया: धीवरा: सन्ति नगडीकृता:, तेषां नौकाश्चापि जडीकृता:। भारतीय-मत्स्यमारकानां कथितरूपेण श्रीलंकाया: जलसीमाभ्यन्तरे मत्स्यमारण-कारणेन निगडनस्य एषा सद्यस्तनीना तृतीया घटना वर्तते। श्रीलंकाया: नौ-सैन्य-बलेन प्रतिपादितं यत् उत्तरपूर्वयो: मन्नार-तटेन साकं संलग्न-सामुद्रिक-क्षेत्रे मंगलवासरे एतेषां मत्स्मारकाणां धीवराणां निगडीकरणपूर्वकं तेषां नौका: अपि जडी कृता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button