संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशमनोरंजनराजनीतिलाइफस्टाइलव्यापार

समेषां गृहाणां छदि भविष्यति सोलर पैनल इति सौरोर्जासंयन्त्राणि, प्रधानमन्त्रिणा मोदिना सूर्योदययोजनायै प्रदर्शित: हरित-ध्वज:।

प्रधानमन्त्री श्रीमोदी सूर्योदययोजनाया: घोषणां कृतवान्। एतद् अन्तर्गतं प्रतिगृहेषु सोलर पैनल इति सौरोर्जायन्त्र-संस्थापनाया: योजना विरचिता वर्तते। प्राणप्रतिष्ठा-त: प्रत्यावर्तनानन्तरमेव प्रधानमन्त्री श्रीमोदी एतं बृहन्निर्णयं स्वीकृतवान्। श्रीमोदी प्रत्यपादयत् यत् अयोध्यात: आगमनानन्तरं मया एष: प्रथम: निर्णय: अभिस्वीकृत: अस्ति यद् अस्माकं सर्वकारः एककोटिमितेषु गृहेषु रूफटॉप इत्याख्यस्य छद्युपरि स्थापनीयस्य सोलर इति सौरोर्जायन्त्र-संस्थापनस्य लक्ष्येण साकं ‘प्रधानमन्त्रि-सूर्योदय-योजनाम्’ प्रारप्स्यते। अवधेयम् अस्ति यदित: पूर्वमपि प्रधानमन्त्रिणा मोदिना सोलर पैनल इत्यस्य नैकवारम् उल्लेख: विहित,: अस्ति। गुजराते तु मुख्यमन्त्रिरूपेण अमुना अस्यां दिशायां भृशं कार्यमपि कृतम् आसीत्। सम्प्रति बृहत्स्तरे तस्याः योजनाया: क्रियान्वयनस्य सज्जता वर्तते। एतद्विषये प्रधानमन्त्रिणा मोदिना X सञ्जाले एकं विस्तृतं विवरणमस्ति प्रेषितम्। असौ उदैरयत् यत् सूर्यवंशीयस्य भगवत: श्रीरामस्य आलोकेन विश्वस्य सर्वे भक्तजना: सदैव ऊर्जसम् लभन्ते । अयोध्यायां प्राण-प्रतिष्ठाया: शुभावसरे मदीय: एष: संकल्प: प्रशस्तीभूत: यत् भारतवासिनां गृहाणां छदिषु तेषां नैजमेव सोलर रूफ टॉप सिस्टम इति संयन्त्रं व्यस्थापितं भवेत्। अग्रे अमुना भणितं यत् अयोध्या-त: आगमनात् परं मया प्रथम: निर्णय: स्वीकृत: अस्ति यत् अस्माकं प्रशासनं एक-कोटि-मितेषु गृहेषु रूफटॉप सोलर इति व्यवस्था-व्यवस्थापनस्य लगाने लक्ष्येण समम् “प्रधानमन्त्रि-सूर्योदय-योजनाया:” प्रारम्भं करिष्यति। अनया योजनया निर्धनानां मध्यमवर्गीयाणां च विद्युत्शुल्कं तु अल्पीभविष्यति एव, युगपदेव भारतम् ऊर्जाक्षेत्रेSपि आत्मनिर्भरीभविष्यति

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button