संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

विज्ञानसम्मेलने छात्रै: प्रदर्शिता वैज्ञानिकसृजनशीलता

कोटद्वार। पौडीजनपदस्य विकासखण्डपोखडान्तर्गतं जनता- इण्टर-कॉलेज-लियाखले विज्ञानसम्मेलनस्य उद्घाटनं प्रधानाचार्य: दीपकरावत: च प्रबन्धनिदेशक: रमेशकुकरेती दीपप्रज्वलनेन कृतवन्तौ ।

विज्ञानमेलायां पञ्चविंशतिः छात्राः चत्वारिंशत् अधिकानि आदर्शानि प्रदर्शितवन्तः । प्राचार्यः दीपकरावतः अवदत् यत् छात्राणां मध्ये वैज्ञानिकसृजनशीलतां प्रयोगवादं च प्रवर्धयितुं विज्ञानमेला आयोजितं यस्मिन् छात्राः उत्साहेन भागं गृहीतवन्तः।

अस्मिन् अवसरे शिक्षा, क्रीडा, निर्धनबालिकानां विवाहः पर्यावरणं चेत्यादिषु क्षेत्रेषु कार्यरतस्य लक्ष्मीशंकरट्रस्टसचिवः अजयनौटियालः, “तपित-एक-पहल-फाउण्डेशन” इत्यत: संस्थापकः संजयगुसैनः च सहभागिनः छात्राणां कृते पुरस्कारं वितरितवन्तः । कोलानिवासी सहायकपुलिस-आयुक्तः ललितमोहननेगी इत्यनेन विद्यालयाय द्वौ सङ्गणकौ, एकं रङ्गमुद्रकं च दत्तम्। तेषां प्रतिनिधिरूपेण आगतस्य एस.आइ.पवनस्य अपि आभारः प्रकटितः।

परिषद: अध्यक्ष: संजयरावत:, जिलाध्यक्ष: डॉ. महावीरबिष्ट:, बीआरसीसमन्वयक: मनोजरावत:, जनपद-उपाध्यक्ष: अजयबिष्ट:, हिमालयनगढ़वालविश्वविद्यालयस्य कुलसचिव: संजय: ऋषेश्वर:, जिलापंचायतसदस्या हेमलता रावत:, पूर्वप्रमुख: सुरेन्द्ररावत:, ग्रामप्रमुख: सिलेटराजपालरावत:, पंचायत सदस्य गिरीशढौंडियाल:, संजयगोसाई, अजयनौटियाल:, प्राचार्य: विजयलिंगवाल:, प्रवीणकुमार:, अनुरागकांट:, पंकजनौटियाल:, कैलाशथपलियाल:, सत्यप्रकाश:, पूनमरावत:, अनुरागबौंठियाल:, क्लस्टरप्रभारी जगमोहनरावत:, फीलगुडसंस्थापक: सुधीरसुन्दरियाल:, जिलामहासचिव: महिपालनेगी, युवामोर्चामहासचिव: शुभमरावत:, प्रबंधक: खिलासु अरुनोदयबिष्ट:, मंडलाध्यक्ष: भाजपा प्रभुशरणबुडाकोटी, ग्रामाध्यक्ष: संजयबिष्ट:, नरेन्द्ररावत:, मनोहरपंत:, मनोजनौडियाल:, बसन्तिदेवी, डॉ.भजनसिंह:, रूपेशजोशी, मनोजबिष्ट: शिवसिंह:, कुलदीपबिष्ट: इत्यादिभिस्सह छात्रा: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button