संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारतीहरिद्वार

“संस्कृतेन सर्वेषां स्पर्श: भवेत् “अ.भा.सं.मन्त्री जयप्रकाशवर्य:”

शताधिकसम्भाषणशिविराणां लक्ष्यमुद्दिश्य प्रान्तसमीक्षायायोजनागोष्ठ्या: समापनम्। कार्यकर्तृणां संकल्पेन गृहं गृहं प्रति प्राप्स्यति संस्कृतं

हरिद्वारं। संस्कृतभारती-उत्तराञ्चलस्य दिनद्वयस्य प्रान्तसमीक्षायोजनागोष्ठी शनिवासरे समारभत्। यत्र
हरिद्वारे श्रीचेतनज्योति-आश्रमे प्रान्तसमीक्षायोजना-गोष्ठ्याः आरम्भ: सरस्वती-मातु: पुरत: दीपप्रज्ज्वलनेन अभवत् हरिद्वार-जनपदाध्यक्षः डॉ. अरुणमिश्रमहोदय: वेदध्वनिं शुभारम्भेस्मिन् कृतवान्। मुख्यातिथि-रूपेण अखिलभारतीय-सहसंघटनमन्त्री श्रीजयप्रकाशगौतममहोदय:
संगठनस्य लक्ष्यम्मुद्दिश्य उक्तवान् यत् सर्वत्र संस्कृतं भवतु तदर्थम् अस्माकं कार्यं संस्कृतसम्भाषणरूपेण अग्रे जायमान: अस्ति। संस्कृतभारत्या: प्रयासेन ग्रामत: आरभ्य अखिलभारतीयस्तरे च विदेशे जना: अधुना संस्कृतेन सम्भाषणं कुर्वन्त: सन्ति। विशिष्टातिथिरूपेण श्रीचेतनज्योति-आश्रमस्य परमाध्यक्षा: महन्त-ऋषेश्वरानन्द महाराज: उक्तवान् यत् अस्माभि: अस्माकं संस्कृते: संस्कृतस्य च रक्षणं कर्तव्यम्। कार्यक्रमस्य अध्यक्षत्वेन प्रान्ताध्यक्षा श्रीमती जानकी त्रिपाठी महोदया उपस्थिता आसीत्। प्रान्तमन्त्रिणा श्रीगिरीशतिवारीमहोदयेन सर्वेषाम् अतिथिनां परिचय: कारित: ।
उत्तराञ्चलप्रान्तस्य संस्कृतभारत्या: दिनद्वयस्य प्रान्तसमीक्षायोजनागोष्ठ्याम् उत्तराखण्डस्य त्रयोदशजनपदेभ्य: खण्डश: जनपदश: विभागश: प्रान्तीया: दायित्ववन्त: कार्यकर्तार: हरिद्वारे समीक्षार्थम् एकत्रिता: अभवन् । यत्र विभिन्नसत्रेषु गतवर्षस्य कार्याणां समीक्षा अभवत् च आगामीवर्षस्य नूतनयोजनाकार्यक्रमाणां समीक्षा अभवत्।

चर्चाविशेषे श्रीजयप्रकाशमहोदय:, श्रीप्रेमचन्द्रशास्त्री, श्रीमतीजानकीत्रिपाठी, गिरीशतिवारी, गौरवशास्त्री , हरीशगुरुरानी इत्यादिभिश्च अखिलभारतीयस्तरे प्रान्तस्तरे जनपदस्तरे खण्डस्तरे जायमानानाम् च सम्भाव्यमानानां कार्यक्रमाणां समीक्षा कृता च सर्वव्यस्थाया: कृते सर्वेषां मार्गदर्शनं कृतं। उत्तरदायित्वरूपेण संस्कृतभारत्या: कार्यकर्तृभ्य: नूतनपदम् अपि प्राप्तं।शताधिकसम्भाषणशिविराणां लक्ष्यमुद्दिश्य प्रान्तसमीक्षायायोजनागोष्ठ्या: समापनम् अभवत्। कार्यकर्तृणां संकल्पेन गृहं गृहं प्रति प्राप्स्यति संस्कृतं ।

रविवासरे प्रान्तसमीक्षायोजनागोष्ठ्या: समापनसत्रेस्मिन् प्रान्ताध्यक्षाद्वारा कथितं यत् वयं मिलित्वा संस्कृतकार्यम् अग्रे वर्धयाम: च विभिन्नस्थानेषु सम्भाषणशिविरायोजनेन संस्कृतं प्रसारयाम: । अखिलभारतीयसंगठनमन्त्रिणा
जयप्रकाशवर्येण उक्तं यत् संस्कृताय अस्माभि: समय: दातव्य: तथा च परस्परं संवाद: सम्मेलनं अपि आवश्यकं। अस्माभि: संस्कृतेन सर्वेषां स्पर्श: भवेत् तेन लालनं संरक्षणम् अपि भवति। सर्वेषां स्मरणम् आवश्यकं। दृष्टि: निर्माणरूपेण आवश्यकी ।

अवसरेस्मिन् विद्वत्-परिषद्-प्रमुख: श्रीदिनेशचन्द्रशास्त्री, गीताशिक्षणप्रमुख: अरविन्दनारायणमिश्र: , प्रकाशचन्द्रजांगी , प्रकाशचन्द्र-उप्रैती , जगदीशचन्द्रजोशी: , जगदीशपाण्डेय: , रोशनगौड:, प्रदीपसेमवाल:, वाणीभूषणभट्ट: , इतेन्द्रनैथानी ,कुलदीपमैन्दोला, पूर्वकार्यालयप्रमुख: मनीषबडथ्वाल: इत्यादय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button