भोगपुरे ( देहरादूनम् ) त्रयोदशसंस्कृतग्रामाणां लोकार्पणम् – मा.मुख्यमन्त्री-शिक्षामन्त्र्योः सन्निधौ सांस्कृतिकसंकल्पस्य शुभारम्भः

देहरादूनजिल्लान्तर्गतं भोगपुरग्रामे अद्य त्रयोदशसंस्कृतग्रामाणां लोकार्पणसमारोहः भव्यरूपेण सम्पन्नः। अस्मिन् अवसरः उत्तराखण्डराज्यस्य मा.मुख्यमन्त्री श्री पुष्करसिंहधामी मुख्यातिथिरूपेण, मा.शिक्षामन्त्री डॉ. धनसिंहरावत विशिष्टातिथिरूपेण च सन्निहितौ आस्ताम्। डोईवालाक्षेत्रस्य मा.विधानसभासदः श्रीबृजबूषणगैरोला, संस्कृतशिक्षासचिवः श्रीदीपककुमारगैरोला, संस्कृतशिक्षानिदेशकः डॉ. आनन्दभारद्वाजः, संस्कृतअकादमिसचिवः डॉ. वजस्रवार्यः, उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. दिनेशशास्त्री, केन्द्रीयसंस्कृतविश्वविद्यालयस्य परियोजनानिदेशकः प्रो. मधुकेश्वरभट्टः च विशेषतया उपस्थिताः आसन्।

कार्यक्रमारम्भः
दीपप्रज्वलनेन कार्यक्रमस्य शुभारम्भः कृतः। ततः अतिथिस्वागतं, परिचयः च सम्पन्नः। प्रास्ताविकं भाषणं संस्कृतशिक्षासचिवेन श्रीदीपककुमारगैरोलेन प्रदत्तम्, यस्मिन् संस्कृतग्रामाणां स्वरूपं, उद्देश्यं, विशेषताः च निरूपिताः।
संस्कृतग्रामस्य परिकल्पना
प्रो. मधुकेश्वरभट्टेन त्रयोदशसंस्कृतग्रामाणां परिकल्पना विस्तारतः प्रदर्शिता। तेषु ग्रामेषु नित्यजीवने संवादभाषारूपेण संस्कृतस्य प्रयोगः, शिक्षायाम्, प्रशासनिककार्यात्, सामाजिकसंवादेषु च संस्कृतस्य प्राधान्यम् भविष्यति इति तेन उक्तम्।

विशेषभाषणम्
कार्यक्रमाध्यक्षः श्रीबृजबूषणगैरोला सर्वेषां प्रति आभारं प्रकटितवान्।
मा.शिक्षामन्त्री डॉ. धनसिंहरावतः अभ्यधात् – “कर्नाटकस्य मत्तरू इति संस्कृतग्रामस्य आदर्शे एते ग्रामाः राष्ट्रे उदाहरणरूपेण प्रसिद्धिं गमिष्यन्ति।”
मा.मुख्यमन्त्री श्रीपुष्करसिंहधामी संस्कृतेन संवादं कृत्वा उक्तवान् – “संस्कृतभाषा अस्माकं सांस्कृतिकपरम्परायाः गौरवचिह्नम्। राज्यसरकारा संस्कृतभाषां आधुनिकां व्यवहारिकां च कर्तुं संकल्पिता। संस्कृतज्योतिः नित्यं प्रज्वलिता स्थास्यति।” ते संस्कृतग्रामाणां जनैः सह संस्कृतेन संवादं कृतवन्तः, तेषां उत्साहं च प्रशंसितवन्तः।

धन्यवादज्ञापनं च संचालनम्
धन्यवादं संस्कृतअकादमिसचिवेन डॉ. वजस्रवार्येण कृतम्। कार्यक्रमस्य संचालनं डॉ. हरीशगुरुराणिना सम्पन्नम्।
गणमान्योपस्थितिः
अस्मिन् अवसरः उपनिदेशकः श्रीपद्माकरमिश्रः, डॉ. नवीनजशोलः, श्रीकिशोरीलालरतूडी, डा अरुण दीप पंत, धीरज मैथानी, श्रीगणेशफोन्दनी, डॉ. रामभूषणः, डॉ. चण्डीप्रसादघिल्डियालः, डॉ. नवीनपन्तः, मेयरः श्रीशम्भूपासवानः, आचार्यः रोशनगौडः, डॉ. कविता मैठानी, डॉ. कैलासपतिमैठानी, डॉ. जनार्दनकैर्वाणः इत्यादयः विद्वज्जनाः ग्रामवासिनः च उपस्थिता आसन्।
एषः प्रयासः उत्तराखण्डे संस्कृतभाषायाः पुनर्जागरणाय नवीनं पृष्ठं उद्घाटयति, यः राष्ट्रीय-अन्तर्राष्ट्रीयस्तरे सांस्कृतिकगौरवस्य संवर्धने महत्त्वपूर्णं योगदानं दास्यति।







