उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

स्वयंसेवकै: स्वच्छताभियानं श्रीसिद्धबलीमन्दिरे सञ्चालितं

“स्वच्छता सर्वधनं स्वच्छता सर्वरोगहरम्।
स्वच्छता सर्वहितं स्वच्छता सर्वलक्षणम्।”

अनया भावनया दिनाङ्कः 9/12/2024 तमे दिनाङ्के ग्रीन-आर्मी देवभूमिः उत्तराखण्डः तथा मेहरबानसिंहकण्डारी सरस्वतीविद्यामन्दिर-इण्टर-कॉलेज-कोटद्वारम्, रितेशशर्मा सरस्वतीविद्यामन्दिर-इण्टर-कॉलेज-जानकीनगरम् कोटद्वारम् च, एनएसएस (NSS) इत्येतैषां स्वयंसेवकैः संयुक्तप्रयासेन श्रीसिद्धबलीबाबामन्दिरे अनुष्ठानस्य स्वच्छतापूर्वकं महास्वच्छता अभियानं आयोजितं।

अस्मिन् अभियाने स्वयंसेवकैः श्रीसिद्धबलीमन्दिरप्राङ्गणे, नवदुर्गामन्दिरे, श्रीफलाहारीबाबामन्दिरे, श्रीसिद्धबलीविहारस्थले च वृहद् स्वच्छता अभियानं कृतम्। अस्मिन् स्वच्छताभियाने कोटद्वारनगरनिगमत:, श्रीमती किरणनेगी, श्रीमती अनुराधा मैन्दोला, श्री योगेशजोशी च तथा तेषां पूर्णसहयोगः लब्ध:

अस्मिन् कर्मणि स्वयंसेवकैः प्रचलिते सर्वे भक्तजनाः, आगन्तुकाः च तेषां प्रशंसां कृतवन्तः।
श्रीसिद्धबलीमन्दिरसमितिकोटद्वारद्वारा समस्तस्वयंसेवकानां कृते जलपानस्य व्यवस्था अपि कृता।

अद्य स्वच्छताकार्यक्रमे श्रीमती अनुराधा मैन्दोला (कर्मचारीपरिचारिका), श्री योगेशजोशी (ग्रीनप्लस), NSS. इत्यस्य प्रभारी श्री मनीषमधवालः, श्री अमितसिंह: (गणितप्रवक्ता), श्री राजनसिंह: (NSS. प्रभारी), ग्रीन-आर्मी-देवभूमि-अध्यक्षः शिवमनेगी, कोषाध्यक्षः उत्कर्ष: नेगी, माध्यमप्रभारी सौरभधूलिया, संदीपसिंहरावतः, राकेशः, अमितसिंहरावतः, सतेंद्रसिंहगुसाईं, अंकितः थपलियालः च अन्ये च स्वयंसेवकाः उपस्थिताः आसन्। एषः स्वच्छताकार्यक्रमः सफलतया सम्पन्नः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button