संस्कृत भारती

गीता-जयन्तीमुपलक्ष्य कार्यक्रमः समायोजितः

अजयकुमार:। हरियाणाप्रान्तस्य महेन्द्रगढ़स्थ-केन्द्रीयविश्वविद्यालयस्य संस्कृतविभागः एवं संस्कृतभारतीमहेन्द्रगढ़मनयोः संयुक्तत्तत्तवधाने गीता-जयन्तीमुपलक्ष्य कार्यक्रमः समायोजितः। कार्यक्रमेऽस्मिन् संस्कृतविभागस्य योग विभागस्य च नैकाः छात्राः प्रतिभागमग्ह्णन् । छात्रासु हिमांशीवर्यया अष्टादशश्लोकीगीतायाः पाठः, मधुस्मितया गीतामहत्त्वचर्चा, पायलवर्यया सस्वरगीताश्लोकपाठः अक्रियत। अनेन गीतामुपलक्ष्य अन्याः प्रस्तुतयोऽपि संजाताः । गीतायाः कार्यक्रमेऽस्मिन् अष्टादशश्लोकीगीतापरायणेन सह गीतायाः महत्त्वम्, गीतायाः वैज्ञानिकता तस्याः उपादेयताश्च विषयाः स्वीकृत्य विविधाः प्रतियोगिताः अपि समायोजिताः । गीतायां वर्णितयोः कर्मसिद्धान्त-साख्यसिद्धान्तयोः विषये योगविभागस्य छात्रया मीनूवर्यया व्याख्यानं प्रास्तूयत। अन्तिमे अस्य कार्यक्रमस्य संयोजिका संस्कृतविभागे सहायकाचार्या डॉ. सुमनरानी सर्वेषां हार्दं धन्यवादमज्ञापयत अस्मिन् अवसरे गणमान्यः विभागीयाः सदस्याः डॉ कृष्णकुमारः, डॉ. अर्चनाकुमारी, श्रीमत्सुमितशर्मा विद्यार्थीगणाः, शोधार्थिनश्च उपस्थिताः आसन् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button