पंजाबसंस्कृत भारती

संस्कृतभारत्या: दस -दिवसीय -संभाषण-शिबिरं सञ्जातम्

अजयकुमार:। संस्कृतभारती ,पञ्जाबप्रान्तः तथा यंग फॉर्मरज पब्लिक हाई स्कूल भादसों एतयोः संयुक्त तत्त्वावधानेन दस -दिवसीय -संभाषण-शिबिरं सञ्जातम् । विद्यालयस्य प्राचार्या मनजीतकौरगरेवालमहोदयायाः अध्यक्षतायां श्रीगीताजयन्ती महोत्सवस्य उपलक्ष्ये श्रीमद्भगवद्गीतायां विद्यार्थी जीवनस्य सुत्र -विषयोपरि व्याख्यानमपि जातम् । यस्मिन् पटियाला -जिलामन्त्री श्रीमन् गगनदीपपाठकमहोदय: मुख्यवक्ता रूपेण आसीत् । महोदयेन छात्रेभ्यः श्रीमद्भगवद्गीतायाः विभिन्न प्रसङ्गानां विद्यार्थी जीवने उपयोगितायाः चर्चा कृता । अवसरेस्मिन् विद्यालये विज्ञानप्रदर्शन्याः अपि आयोजनं कृतम् यस्मिन् विद्यालयस्य सर्वे छात्राः भागं गृहीत्वा प्राचीनभारतीयज्ञान-विज्ञानपरम्परायाः विषये ज्ञातवन्तः । अवसरेस्मिन् नाभा नगरस्य विस्तारकः मनीषमहोदयः तथाश्च विद्यालयस्य उप-प्राचार्य श्रीमन्जशनदीपकुमारमहोदयः आसीत् तथा विद्यालयस्य अन्य शिक्षकानां सहयोगम् अपि प्राप्तवन्तः ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button