पंजाबसंस्कृत भारती

जीरकपुरे संस्कृतभारत्या: गीतापारायणकार्यक्रमः

अजयकुमार-आर्य:। संस्कृतभारती, हरियाणा (न्यासः) द्वारा ॐ शान्ति-शिवमन्दिरे, जीरकपुरे 10.12.2024 दिनाङ्के गीता-जयन्ती-महोत्सवे गीतापारायणकार्यक्रमः अभवत्। कार्यक्रमे संस्कृतभारत्याः परिचयं गीतापाठञ्च जिलाविस्तारकः देवाँशकृष्णः कृतवान्। गीतायाः व्याख्यानं पञ्चकूलाजिला-कार्यकारणीसदस्यः श्री रामदीयाशास्त्री महोदयः कृतवान्। राष्ट्रपतिना सम्मानितः डॉ. जगदीशप्रसादसेमवाल-महोदयः गीतायाः आवश्यकता तथा च उपयोगिता विषये मार्गदर्शनं कृतम्। कार्यक्रमे मन्दिरपरिसरस्य प्रधानः, कार्यकारणी-सदस्याः, सामाजिकाश्च उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button