उत्तराखण्डहरिद्वार

हरिद्वारस्य त्रिदिवसीयानां तृतीय-संस्कृतच्छात्र- क्रीडाप्रतियोगितानां शुभारम्भ:

हरिद्वारस्थे ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालये तृतीया संस्कृतच्छात्र-क्रीडाप्रतियोगिता 2024 सोमवासरे 09 दिसम्बर 2024 दिनांके प्रातः 10 वादने आरभ्यते। अयम् कार्यक्रमः त्रिदिवसपर्यन्तं संजायते । प्रथमदिवसे (09 दिसम्बर 2024)दिनांके शुभारम्भसमारोहः सम्पद्यते ततः कन्दुक-क्रीडाप्रतियोगिता (क्रिकेट् ) इति च हस्तकन्दुक-क्रीडाप्रतियोगिता (वॉलीबाल) इति प्रवृत्ते।

अध्यक्षपदमलंकरोति श्रीमान् पूर्वरणजीप्रतिभागी प्रकाशचन्द्रजोशीवर्य: । मुख्यातिथपदमलंकरोति श्रीमान् सन्दीपगोयल: जिलाध्यक्षः भारतीयजनतापार्टी, हरिद्वारम्
एवं च विशिष्टातिथिपदलंकुरुत: श्रीमान् ललितरावतः निर्वतमान-पार्षद्, हरिद्वारम्, नगरनिगमत: श्रीमान् परविन्द्रगिल: निर्वतमान-पार्षद्, हरिद्वारम् इत्येते महानुभावा: समंचासीनेन उद्घाटनं सफलीकुर्वन्ति ।

द्वितीयदिवसे (10 दिसम्बर 2024) दिनांके धावनक्रीडाप्रतियोगिता (ऐथलेटिक्स) च लम्बकूर्दन-क्रीडाप्रतियोगिता (लम्बीकूद) इति सम्पद्यते
अत्र अध्यक्षपदमलंकरोति माननीय: मदनकौशिक: हरिद्वारविधायकः, तथा च मुख्यातिथिरूपेण सभामलंकरोति माननीय: डॉ. धनसिंहरावत: संस्कृतशिक्षामन्त्री, विशिष्टातिथिरूपेण अत्र श्रीमान् दीपककुमार: सचिवः संस्कृतशिक्षा सभामलंकरोति च सहैव मार्गदर्शक: डॉ० आनन्दभारद्वाज: निदेशकः संस्कृतशिक्षा, एवं च मार्गदर्शकः डॉ० वाजश्रवा आर्यः सहायकनिदेशकः संस्कृतशिक्षा – हरिद्वारम् इत्येते समेषां क्रीडकानां प्रोत्साहनं कुर्वन्ति ।

तृतीयदिवसे (11 दिसम्बर 2024) दिनांके सम्पूर्ति-पुरस्कारवितरणसमारोहः सम्पद्यते।
कार्यक्रमाध्यक्षरूपेण स्वामीरविदेव-शास्त्रीमहाराजः
परमाध्यक्षः गरीबदासी-आश्रमः, हरिद्वारम् तथा च मुख्यातिथिः – श्रीमान् रमेशगड़ियामहोदयः मा. राज्यमंत्री, उत्तराखण्डसर्वकारः एवं च विशिष्टातिथिः – महन्तपरमपूज्यः शिवानन्दमहाराजः अध्यक्ष: अखिल-भारतीययुवा-साधुसमाजः च मार्गदर्शकः डॉ० वाजश्रवा आर्यः सहायकनिदेशकः संस्कृतशिक्षा हरिद्वारं सर्वे प्रतिभागिनां कृते पुरस्कारवितरणं कुर्वन्ति।

प्रतियोगितायाः सफलसमापनं सहभागिभ्यः पुरस्कारवितरणेन च सम्पद्यते। संस्कृतशिक्षायाः संवर्द्धनं च छात्रेषु क्रीडाभावनायाः जागरणं च स्वास्थ्यशिक्षणम् च क्रीडाद्वारा संस्कृतम् अस्य कार्यक्रमस्य प्रमुखो उद्देश्यः वर्तते।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button