द्विदिवसीयम् अखिलभारतीयसंस्कृत-शोधसम्मेलनम् सुसम्पन्नम्
🔵उत्तराखण्ड-संस्कृत-अकादम्याः आयोजनस्य अन्तर्गतं संस्कृतविद्वांसः विविधेषु विषयेषु स्वीयशोधपत्राणि प्रस्तुतवन्तः । 🔵वर्तमाने भारतीय-ज्ञानपरम्परायाः उपादेयता सन्दर्भेस्मिन् जातं सम्मेलनं ।

हरिद्वारम् । उत्तराखण्ड-संस्कृत-अकादमीद्वारा भारतीयज्ञानपरम्परायाः संवर्धनाय ‘वर्तमाने भारतीयसंस्कृतज्ञानपरम्परायाः उपादेयता’ अस्य विषयस्य अन्तर्गतं द्विदिवसीयम् अखिलभारतीयं संस्कृतशोधसम्मेलनम् अकादम्याः संस्कृतभवने रानीपुरझाले ज्वालापुरहरिद्वारे कुशलतया सम्पन्नं जातं । समापनसमारोहे दीपप्रज्वालनं विद्वद्भि: वैदिकमन्त्रै: सह कृतं तदनन्तरं सर्वेषां पुरस्तात् संस्कृताविर्भावविषये श्रीशैलशतिवारी-महोदयः मार्गदर्शनं कृतवान् यत् भारतीय-ज्ञानपरम्परा अनादिकालात् मानवजीवनं प्रेरयति। च शास्त्राध्ययनपरम्परा – वेदव्यासमहाभागः देवभूमितः आरभ्य शास्त्राध्ययनपरम्परां स्थापितवान्। आश्रमसंस्थाया: महत्त्वम् – कण्वाश्रमः, द्रोणाश्रमः च विद्याप्राप्तये प्रसिद्धौ। गुरुकुलव्यवस्थायां छात्राः गृहभिक्षाटनद्वारा गुरुदक्षिणां सम्पाद्य अध्ययनं कुर्वन्ति स्म। त्यागः च पुरुषार्थाः – चतुर्णां पुरुषार्थानां त्यागस्य च महत्त्वं विस्तरेण प्रतिपादितम्। महोदयेन वैज्ञानिकदृष्ट्या दिव्यास्त्राणां अध्ययनम् – दिव्यास्त्राणां वैज्ञानिकतत्त्वानि उद्घाटितानि।
डा. आनन्दभारद्वाज-महोदयः समारोहे उक्तवान् यत्
आंइस्टीनस्य ऊर्जा-संरक्षणसिद्धान्तं तथा न्यूटनस्य बलसिद्धान्तं गीता-सिद्धान्तैः सह तुलयित्वा प्रस्तुतम्। एते सिद्धान्ताः संस्कृतवाङ्मयेन प्रेरिताः इति निर्दिष्टम्।
सुजीतसिंहपंवार-महोदयेन भारतीयसंस्कृतौ गर्भस्थशिशोः विज्ञानं विशदं कृतम्। गर्भे शिशोः स्थिति, विकासः च पुराणेषु उल्लिखितः। तेन सहैव संस्कृत-विज्ञानं आधुनिक-विज्ञानस्य मार्गदर्शकं भवति इति अभिप्रेरितम्।
प्रकाशजोशी-महोदयेन संस्कृतशिक्षायाम् संस्कृतक्रीडायाः भूमिका प्रतिपादिता। च संस्कृतक्रीडायाः प्रसाराय सहकारं अपेक्षितम् इति प्रोक्तं सम्मेलनस्य विशेषता आसीत् यत्विभिन्नसत्रेषु अध्यक्षाः सत्रसंयोजकाः च सम्यक् संचालनं कृतवन्तः।विद्वांसः विविधविषयेषु शोधपत्राणि प्रस्तुतवन्तः।
अन्तिमसत्रं डा.प्रकाशपन्तवर्यस्य अध्यक्षतायां च कुलदीपमैन्दोलावर्यस्य संचालने च ओमप्रकाशभट्टवर्यस्य अध्यक्षतायां तथा च डा.राघवझावर्यस्य संचालने पूर्ण: जात: । सर्वेभ्य: शोधवाचकेभ्य: प्रमाणपत्रम् अतिथिभि: प्रदत्तं।
भारतीय-ज्ञानपरम्परायाः प्राचीन-विज्ञानं, चिकित्सा-विज्ञानं च आधुनिकसन्दर्भे विचारितम्। उद्घाटनस्य च समापनस्य मंचसंचालनं शोधाधिकारी डा. हरीशगुरुरानी कृतवान्।
सम्मेलनमिदं भारतीय-ज्ञानपरम्परायाः नूतनदृष्ट्या अध्ययनाय मीलस्तम्भरूपेण प्रकटितः।







