उत्तराखण्ड-संस्कृत-अकादमीद्वारा अखिलभारतीयसंस्कृत-शोधसम्मेलनस्य शुभारम्भ:

उत्तराखण्ड-संस्कृत-अकादमीद्वारा भारतीयज्ञानपरम्परायाः च संवर्धनाय ‘वर्तमाने भारतीयसंस्कृतज्ञानपरम्परायाः उपादेयता’ अस्य विषयस्य अन्तर्गतं द्विदिवसीयम् अखिलभारतीयं संस्कृतशोधसम्मेलनम् अकादम्याः संस्कृतभवने रानीपुरझाले ज्वालापुरहरिद्वारे आयोजितम् ।
कार्यक्रमस्य उद्घाटनं शनिवासरे, 07 दिसम्बर, प्रातः 10:30 वादने दीपप्रज्वलनेन सम्पन्नम्। उद्घाटनसमारोहे अध्यक्षारूपेण प्रो. हेमलताकृष्णामूर्तिमहाभागा, गुरुकुलकाङ्गडीविश्वविद्यालयस्य कुलपतिः, अद्यतनपरिप्रेक्ष्ये संस्कृतभाषायाः प्रासंगिकता प्रस्तुतवती। मुख्यातिथिरूपेण श्रीमान् दीपककुमारः, सचिवः संस्कृतशिक्षायाः, उत्तराखण्डशासनस्य, संस्कृतशिक्षायाः उन्नतिं च प्रचारं प्रति शासनस्य भूमिं विवृतवान्। राष्ट्रपतिपुरस्कृतः विद्वान् डॉ. ओमप्रकाशभट्टः सारस्वतातिथिरूपेण संस्कृतशोधस्य नूतनदिशि शोधार्थिनः प्रेरितवान्। विशिष्टातिथिरूपेण श्रीगिरीशकुमार-अवस्थी, उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलसचिवः, संस्कृतविश्वविद्यालयस्य योगदानं तथा अनुसन्धानकार्येषु नवाचारम् विज्ञापितवान्।
अस्य सम्मेलनस्य मुख्योद्देशः संस्कृतभाषायाः प्रासंगिकताम् तथा भारतीयज्ञानपरम्परा वैज्ञानिकदृष्टिकोणे समकालीनसन्दर्भे प्रस्तोतुं भवति। विद्वांस: स्वीयैः शोधपत्रैः सिद्धं कर्तुम् प्रयत्नं कृतं यत् संस्कृतं केवलं प्राचीनभाषा न, अपितु , आयुर्वेदे, ज्योतिःशास्त्रे, दर्शने चादिषु वैज्ञानिकरूपेण समस्यानां समाधानं निहितमस्ति।
विभिन्नविदुषाम् अध्यक्षतायां मञ्चसंयोजकानां च मञ्चसञ्चालकानां सानिध्ये द्विदिवसीयसम्मेलनस्य प्रथमे दिवसे विविधशोधसत्राणि आयोजितानि अभवन् । अस्मिन भारतीयसंस्कृतिः, योगः, वेदः, दर्शनम्, प्राचीनसाहित्यादीनां वैज्ञानिकपक्षः च विषयेषु विद्वांस: विचारान् प्रकटितवन्तः। सम्मेलनस्य सहभागित्वं देशस्य प्रमुखविश्वविद्यालयेभ्यः संस्थानेभ्यः च आगतानां शोधकर्तारः कृतवन्तः। सम्मेलनस्य अवसरे भाषकाः अत्र बलं दत्तवन्तः यत् संस्कृतभाषा केवलं धरोहरः न, अपितु ज्ञानस्य महान् स्रोतः अस्ति। आधुनिकविज्ञानं प्रौद्योगिकीं च व्यवस्थासु संस्कृतस्य उपयोगिताम् अवगन्तुं प्रचारयितुं च आवश्यकता अस्ति। सम्मेलनमिदं केवलं शोधकर्तृभ्यः विद्वद्भ्यः च प्रभावशाली अवसरं न दत्तवान्, अपितु संस्कृतभाषायाः उज्ज्वलभविष्याय अपि नवीनामाशां सृजितवान्।
अस्मिन् अवसरे अकादम्याः सचिवः डॉ. वाजश्रवा आर्यः च संयोजकः डॉ. हरीशचन्द्रः गुरुरानी च सर्वान् अतिथीन् प्रतिभागिनः च आभारं प्रकटितवन्तौ। तौ अवदताम् यत् एवम्प्रकारस्य सम्मेलनानि संस्कृतभाषायाः भारतीयसंस्कृते: च संरक्षणे संवर्धने च महत्वपूर्णभूमिकां वहन्ति।







