संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

विश्वस्य श्रेष्ठतमसंस्कृते: आधार: संस्कृतं – “माननीयराज्यपाल:”

💦राज्यपालेन उत्तराखण्डसंस्कृतविश्वविद्यालयस्य 30 छात्रेभ्यः स्वर्णपदकं प्रदत्तम् । 💦।। दीक्षान्तसमारोहे 3047 छात्रेभ्यः उपाधयः प्रदत्ताः। सत्रे 2022-23 इत्यस्य 1582 छात्रेभ्यः तथा सत्रे 2023-24 इत्यस्य 1465 छात्रेभ्यः उपाधयः प्रदत्ताः ।।

।हरिद्वारम्। उत्तराखण्डसंस्कृतविश्वविद्यालयस्य एकादशतमे दीक्षान्तसमारोहे माननीयराज्यपालः च विश्वविद्यालयस्य कुलाधिपतिः लेफ्टिनेंटजनरलः श्रीगुरमीतसिंहः (सेवानिवृत्तः) त्रिंशत् स्नातकपरास्नातकछात्रेभ्यः स्वर्णपदकं प्रदत्तवान्। तदनन्तरं विश्वविद्यालयस्य विविधविभागेषु एकविंशतिछात्रेभ्यः विद्यावारिधि-उपाधिं प्रदाय सम्मानितवान्। राज्यपालस्य करैः स्वर्णपदकं विद्यावारिधिं च उपाधिं प्राप्य छात्राः अत्यन्तं हृष्टाः आसन्।

दीक्षान्तसमारोहस्य अध्यक्षतां कुर्वन् राज्यपालः श्रीगुरमीतसिंहः उक्तवान् यत् कस्यापि राष्ट्रस्य आत्मा तस्य संस्कृतिः अस्ति। संस्कृतिः यावत् जीवति सुरक्षितं च भवति, तावत् राष्ट्रम् अपि जीवति सुरक्षितं च भवति। विश्वस्य सर्वासु संस्कृतिषु प्राचीनतमं श्रेष्ठं च भारतीया संस्कृतिः अथवा वैदिकसंस्कृतिः अस्ति। अस्याः संस्कृत्याः आधारः संस्कृतभाषा अस्ति। संस्कृतभाषां विना भारतीयसंस्कृतिः च भारतीयसंस्कृतिं विना च भारतस्य कल्पना अपि अशक्या। राज्यपालः स्वर्णपदकं उपाधिं च प्राप्नुवतां छात्राणां प्रति उक्तवान् यत् ते भारतस्य समृद्धिम् अग्रे नेतुं प्रयत्नं कुर्वन्तु, तदा एव तेषां पदकस्य उपाधेः च सार्थकता भविष्यति। तेऽपि उक्तवन्तः यत् राष्ट्रनिर्माणे युवशक्तेः भूमिकाः अतीव महत्त्वपूर्णाः। भारतीययुवशक्तेः स्कन्धे एव संस्कृतं संस्कृतिं च अग्रे नेतुं महत्त्वपूर्णं दायित्वं स्थापितं भवति। ते उक्तवन्तः यत् विश्वस्य सम्पूर्णा शिक्षा संस्कृतभाषायामेव अन्तर्भवति।

दीक्षान्तसमारोहे राज्यपालेन विविधक्षेत्राणां विदुषः, राममन्दिरट्रस्टकोषाध्यक्षः स्वामीगोविन्ददेवगिरीमहाराजः, देवसंस्कृतिविश्वविद्यालयस्य प्रतिकुलपतिः डॉ.चिन्मयपण्ड्या, केन्द्रसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो.श्रीनिवासनवरखेड़ी च विद्यावाचस्पतिः (डी.लिट्) इत्यस्य मानदोपाधिं प्रदाय सम्मानिताः।

दीक्षान्तसमारोहे विश्वविद्यालयस्य कुलपतिः प्रो. दिनेशचन्द्रशास्त्री उक्तवान् यदि संस्कृतिः भारतदेशस्य आत्मा अस्ति, तदा संस्कृतभाषा संस्कृतेः आत्मा अस्ति। प्रो. शास्त्री विश्वविद्यालयस्य अधिसंरचना, विभिन्नसंस्थानैः सह कृतानि एम.ओ.यू. च विश्वविद्यालयस्य प्रगतिं विषये प्रकाशं चकार। विश्वविद्यालयेन ज्योतिषयोगवेदकर्मकाण्डादिषु अतीव न्यूनसेवाराशौ परामर्शसेवा प्रदीयते। इत्यस्माद् कारणात् जनसामान्यः अस्य लाभं लभेत्। दीक्षान्तसमारोहे 3047 छात्रेभ्यः उपाधयः प्रदत्ताः। सत्रे 2022-23 इत्यस्य 1582 छात्रेभ्यः तथा सत्रे 2023-24 इत्यस्य 1465 छात्रेभ्यः उपाधयः प्रदत्ताः।

अस्मिन्नेव अवसरे उत्तराखण्-आयुर्वेदविश्वविद्यालयस्य कुलपतिः प्रो. अरुणकुमारत्रिपाठिः, उत्तराखण्डमुक्तविश्वविद्यालयस्य कुलपतिः प्रो. ओमप्रकाशनेगी, उत्तराखण्ड-औद्यानिकीविश्वविद्यालयस्य कुलपतिः प्रो. परविन्दरकौशलः, प्रो. यशबीरसिंहः इत्यादयः गणमान्यजनाः उपस्थिताः। विश्वविद्यालयस्य कुलसचिवः गिरीशकुमार: अवस्थी सर्वेभ्यः अतिथिभ्यः धन्यवादं ज्ञापितवान्। संचालनं डॉ. प्रकाशपन्तः कृतवान्।

स्वर्णपदकसम्मानितेषु
दीक्षान्तसमारोहे मेधावीछात्रछात्रासुष रितेशकुमारतिवारी, अभिषेकसैनी, कु. वन्दनामौर्या, सूरजतिवारी, विनीता, हिमांशुमुण्डेपी, शुभाङ्गिनीतिवारी, सागरखेमरिया, परविन्दरसिंह:, चन्द्रमोहन:, ताजीमफात्मा, उपासनावर्मा, निधिः, ब्रजेशकुमारजोशी, देवव्रत:, हिमांशुः, सन्नी, अमितजोशी, सुबोधबहुगुणा, अनुरागशर्मा, अतुलध्यानी, कु. प्रतिज्ञाचौहान:, भारतकुमार:, पवनजोशी, निधिः, शिफालियाफरीन:, नीतूतलवार:, गुरमीतसैन:, कु. स्वातिः, मनीषशर्मा इत्येते स्वर्णपदकेन सम्मानिताः अभवन्

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button