उत्तराखण्डपौड़ी

संस्कृतकार्यशालायां विद्वद्भि: विवेचितं संस्कृतस्य दार्शनिकमहत्वं भाषामहत्त्वं च

ज्ञानस्य, विज्ञानस्य, च संस्कृत्याः स्रोतः संस्कृतम् अस्ति- "डा.कविताभट्टशैलपुत्री" । 💦केन्द्रीयगढवालविश्वविद्यालये संजायते निश्शुल्कसंस्कृतकार्यशाला

हेमवतीनन्दनबहुगुणाविश्वविद्यालयस्य बिड़लापरिसरस्य संस्कृतविभागेन आयोजितायां सरलसंस्कृतसम्भाषणकार्यशालायां पचमदिवसे आंग्लविभागत: डा.सविताभण्डारी , दर्शनविभागत: डा.कविताभट्टशैलपुत्री , संस्कृतविभागत: डा.आशुगुप्त: , डा.विश्वेषवाग्मी, डा.आशुतोषगुप्त: , डा.बालकृष्णबधानी च शिक्षक: कुलदीपमैन्दोला कार्यशालाया: शिक्षणेन सह छात्रेभ्य: संस्कृतस्य दार्शनिकमहत्वं भाषामहत्त्वं च उक्तवन्त:

डा. सविताभण्डारी भाषायी कौशलविषये स्वस्य अभिमतं प्रकाशयन्ती उक्तवती यत् संस्कृतं न केवलं एकं प्राचीनं गवेषणात्मकं च विषयं, अपितु सर्वभाषाणां शिक्षायाः आधार: च अस्ति। तस्याः मतानुसारं, संस्कृतम् एतादृशी भाषा अस्ति या सर्वेषां भाषाणां मूलं कथ्यते। अत्र व्याकरणस्य संरचना इत्थं स्पष्टं च व्यवस्थितं च अस्ति यत् अन्यभाषायाः अध्ययनं तस्य आधारं गत्वा सरलतया सम्पद्यते। उदाहरणरूपेण, संस्कृतस्य धातुपाठः तथा शब्दरूपाणि भाषायाः मूलभूतसंरचनायाः बोधं सुगमं कुर्वन्ति।

डा. भण्डारीद्वारा उक्तं यत् संस्कृतं केवलं भारतीय भाषाणाम् (हिन्दी, मराठी, बंगाली, तमिळ्, आदि) आधारं न भवति, अपितु आङ्ग्लभाषायाः अपि सहायिका अस्ति। उदाहरणार्थं, संस्कृतस्य शब्दाः तथा व्याकरणं गवेषयतः आङ्ग्लभाषायाः शब्दावली च व्याकरणं च सहजतया बोध्यते। संस्कृतं शुद्धतायाः, स्पष्टतायाः, तथा अनुशासनस्य प्रतीकम् अस्ति।
संस्कृतस्य अध्ययनं केवलं भाषायाः कौशलं न प्रवर्धयति, अपितु मनसः तर्कशक्तिं च प्रबोधयति। तस्मात् डा. सविताभण्डारीवर्यया उक्तं यत् संस्कृतं भाषायाः जगति अद्वितीयं साधनं तथा सर्वभाषाणां शिक्षायाः एकं श्रेष्ठम् उपकरणं इति।

डा. आशुतोषगुप्तेन उक्तं यत् अस्माकं भागीरथप्रयासः निश्चितं संस्कृतगङ्गां प्रतिजनस्य समीपं नेतुम् यत्नं करिष्यति। तस्य मन्तव्यं यत् संस्कृतं केवलं प्राचीनभाषा नास्ति, अपितु एषा संस्कृति:, विज्ञानं, तथा अध्यात्मज्ञानस्य गङ्गा इव पवित्र: स्रोतः अस्ति। यदि अस्माकं प्रयत्नः निरन्तरं च दृढः च भवेत्, तर्हि संस्कृतं पुनः लोकस्य हृदयं गमिष्यति। सः उक्तवान् यत् संस्कृतस्य प्रचारप्रसारः केवलं भारतस्य सांस्कृतिकमूल्यानां संरक्षणं न, अपितु आधुनिकजगति अस्माकं स्थानं सुदृढं करणं च अस्ति। तस्मात्, एषः भागीरथप्रयासः सर्वैः सहकर्तव्यः इति।

डा. विश्वेषवाग्मिना उक्तं यत् संस्कृताय सर्वेभ्यः मनसा वाचा कर्मणा च कार्यं करणीयम्।तस्य अभिमतं यत् संस्कृतं केवलं अध्ययनस्य विषयः न भवति, अपितु एषा भाषा अस्माकं जीवनस्य अभिन्नः अंशः भवितुं अर्हति। संस्कृतस्य संवर्धनं तथा प्रचारः केवलं वाग्भिः संभवः न, किन्तु तत्सम्बन्धिनी कर्मणा अपि आवश्यकम्। सः उक्तवान् यत् यदि वयं मनसा संस्कृताय समर्पिताः भवेम, वाचा तस्या महत्त्वं सर्वत्र प्रचारयेम, तथा कर्मणा तत्संरक्षणं च समुचितं यत्नं कुर्याम, तर्हि संस्कृतं पुनः वैभवं प्राप्स्यति। अतः अस्माकं संस्कृतं प्रति निष्ठा मन-वचन-कर्मणाम् एकतारूपेण प्रकटनीया इति।

डा. कविताभट्ट-शैलपुत्र्या व्यक्तविचार: संस्कृतभाषायाः महत्त्वं तथा तस्या: वैश्विकोपयोगितां आधारीकृत्य आसीत् । तस्याः एषः मन्तव्यः केवलं संस्कृताय गौरवं प्रकाशयति न, अपि तु एतत् अपि निर्दिशति यत् संस्कृतं केवलं भाषा न, किन्तु ज्ञानस्य, विज्ञानस्य, च संस्कृत्याः स्रोतः अस्ति।

तया उक्तं यत् संस्कृतं विश्वस्य प्राचीनतमभाषासु एका गण्यते। अत्र निहितानि शास्त्राणि, उपनिषदः, वेदाः, पुराणानि, योगः, आयुर्वेदः च इत्यादीनां ज्ञानरत्नानि अद्यापि प्रासङ्गिकानि सन्ति। डा. कविताभट्ट: उक्तवती यत् संस्कृतं सम्पूर्णस्य विश्वस्य दर्शनं वर्तयति। एषः तथ्यः स्पष्टीकरोति यत् संस्कृतं केवलं धार्मिक-आध्यात्मिकभाषा नास्ति, अपि तु एषा विज्ञानस्य, गणितस्य, खगोलशास्त्रस्य, चिकित्सायाः, दर्शनशास्त्रस्य च विषये अपि समृद्धा अस्ति।

तया संस्कृतस्वरूपस्य परिचये शिक्षामहत्त्वे अस्माभि: स्वस्य भारतीयसंस्कृत्याः शिक्षायाः त्यागः अकार्यः इति विचारः व्यक्तः। एषः संदेशः आत्मजागृतेः आत्मनिर्माणस्य च दिशायां अतीव महत्वपूर्णः। संस्कृतस्य अध्ययनं केवलं भाषायाः शिक्षणं न, अपि तु प्राचीनज्ञानस्य, मूल्यस्य, परम्पराणां च प्रति जागरूकतां प्रबोधयति। इदं संस्कृतम् अस्मान् अस्माकं संस्कृत्या संयोजयति तथा जीवनं व्यापकदृष्ट्या योजयति।

वैश्विकदृष्ट्या संस्कृतविषये सा अवोचत् यत् संस्कृतस्य महत्त्वे केवलं भारतस्य सीमा एव नास्ति। नासा इत्यादिभिः अन्तर्राष्ट्रीयसंस्थानैः एषा भाषा वैज्ञानिकदृष्ट्या उपयोगी भाषा इति स्वीकृता। संस्कृतस्य व्याकरणस्य संरचना इत्थं वैज्ञानिकं यत् एषा संगणक-कार्यक्रमाय अपि उपयुक्ता मन्यते।

संस्कृतशिक्षायाः पुनः स्थापने अपि तयोक्तं यत् संस्कृतं केवलं अतीतानां अंशः इति विचार्य त्यक्तुं अनुचितम्। आधुनिकशिक्षापद्धतौ तस्याः एकस्य आवश्यकतत्त्वस्य रूपेण सम्मेलनं करणीयम्। संस्कृतम् अस्मान् अस्माकं गौरवपूर्णे इतिहासे संयोजयति, अपि तु भविष्याय वैज्ञानिकं सांस्कृतिकं च दृष्टिकोणं अपि प्रददाति। अस्मान् अस्माकं मूलस्य अभिमुखं नेतुम्, तं पुनः जीवयितुं च प्रेरयति। संस्कृते स्थितं ज्ञानं दर्शनं च सम्पूर्णविश्वाय अमूल्यं धरोहरं अस्ति। तस्य संरक्षणं तस्य च आगामीसन्ततिं प्रति सम्प्रेषणम् अस्माकं उत्तरदायित्वं। अस्माकं भाषा, संस्कृति:, शिक्षापद्धतिषु च संस्कृतस्य महत्त्वम् अवगत्य एषा भाषा जीवनस्य अभिन्नं अङ्गं करणीयम्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button