उत्तराखण्डचम्पावत्

चम्पावतजनपदे मुख्यमंत्री अनेकानां विकासयोजनानां शिलान्यासं कृतवान्

सप्तेश्वरमहादेवमन्दिरे राज्यस्य सुखस्य, शांते:, समृद्धे:, च कामनाम् अकरोत्

मुख्यमंत्री श्री पुष्करसिंहधामी चम्पावतस्य श्री सप्तेश्वरमहादेवमन्दिरे भगवानशिवस्यदर्शनं कृतवान् तथाच राज्यस्य सुखस्य, शांते:, समृद्धे:, च कामनाम् अकरोत्। अनेकानां विकासयोजनानां शिलान्यासः अपि अकरोत् तथा च मन्दिरे आयोजिते होलीगायन, झोडागीतकार्यक्रमे अपि भागम् ऊढवान् । मुख्यमन्त्री श्री धामी इत्यनेन उक्तं यत् महाशिवरात्र्या: शुभावसरे भगवान्सप्तेश्वरमहादेवमन्दिरस्य पुनर्निर्माणार्थं भूमिपूजनं करणं देवभूमे: मुख्यसेवकत्वेन मम कृते सौभाग्यम् अस्ति। सप्तर्षयः अस्मिन् स्थाने तपस्यां कृतवन्तः। महादेवस्य आशीर्वादेन एव अहम् अत्र प्राप्तः। सः अवदत् यत् आदरणीयप्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य नेतृत्वे सम्पूर्णे विश्वे सनातनसंस्कृतेः ध्वजः कीर्त्यते , सांस्कृतिकराष्ट्रवादस्य भावना पुनः प्रज्वलितः अस्ति। अस्माकं राज्यसर्वकारः प्राचीनमन्दिराणां पुनर्निर्माणाय, नवीनीकरणाय च प्रतिबद्धः अस्ति। सः अवदत् यत् केदारखण्डस्य मन्दिराणां विकासेन सह वयं मानसखण्डवीथिमर्गस्य अपि विकासस्य दिशिं गच्छामः। प्रथमचरणे बहवः मन्दिराणि गृहीताः, अन्ये मन्दिराणि द्वितीयचरणस्य ग्रहणं करिष्यन्ति। एतदर्थं वयं गुरुयोजनां सज्जीकृत्य तदनुसारं कार्यं कुर्मः। अस्मिन् कालखण्डे मुख्यमन्त्री श्यामलातालसरोवरस्य कृते १३ जिला १३ गन्तव्यस्थानानां अन्तर्गतं पर्यटनसंस्थानां कृते निर्मितस्य डीपीआर इत्यस्य अनुमोदनस्य घोषणां कृतवान्। सः बाराकोटखण्डमुख्यालयक्षेत्रे मार्गाणां डामरीकरणस्य, गोरालचोड् मैदानस्य कृते स्टेडियमरूपं दातुं विस्तृतस्य डीपीआ इत्यस्य निर्माणस्य घोषणां कृतवान्। टनकपुरे साहसिकक्रीडाकेन्द्रस्य संचालने एव एरोस्पोर्ट्स् क्रियाकलापाः, आधारभूतसंरचना च निर्मिताः भविष्यन्ति इति सः अवदत्। मुख्यमन्त्री बीएडीपीयोजनाया: अन्तर्गतं पौराणिकलधौनधुरामेलास्थलस्य सौन्दर्यीकरणस्य च सप्तेश्वरमहादेवमन्दिरस्य सम्पूर्णस्थानस्य सौन्दर्यीकरणस्य, स्नानघाटस्य तथा दाहगृहस्य पुनर्निर्माणं सौन्दर्यीकरणं च तथा च सिप्तीपम्पिंग योजनायाः अनुमोदनस्य घोषणां कृतवान् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button