संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वार

महाविद्यालयकोटद्वारे भारतीयसंस्कृतिज्ञानपरीक्षायां प्रियंका 300 राशिं स्मृतिचिह्नं च प्रमाणपत्रं प्राप्तवती ।

• प्रभारीप्राचार्येण प्रो. एम.डी. कुशवाहावर्येण स्वकरकमलेन प्रमाणपत्राणि प्रदत्तानि

• परीक्षायाम् 97 प्रतिभागिन: आसन् , यत्र 67 छात्रेभ्य: पुरस्कार: प्रदत्त:

कोटद्वार। भारतीयसंस्कृतिज्ञानपरीक्षाया: 2022- 23वर्षस्य कोटद्वार-उपजनपदे पुरस्कारस्य वितरणं संजातं। शांतिकुंजहरिद्वारपक्षत: पौडीगढ़वालस्य महाविद्यालयस्तरीया भारतीयसंस्कृतिज्ञानपरीक्षा 2022-23 कोटद्वारक्षेत्रान्तर्गतं पीताम्बरदत्तबर्थवालहिमालयनराजकीय-स्नातकोत्तर- महाविद्यालये कोटद्वारे 5 नवम्बर 2022दिनांके प्राचार्यवर्याया: प्रो.जानकीपंवारस्य कुशलनेतृत्वे सम्पन्नोभूत्। संस्कृतिसन्दर्भे संरक्षिकारूपेण प्राचार्यवर्यया छात्राणां विकासाय महत्त्वपूर्णविन्दून् संसूच्य कथितम् यत् अस्माकं देशस्य संस्कृतिः केवलं छात्रैः एव पुनर्जीविता अस्तीति ।
महाविद्यालयस्तरस्य 16 मार्च 2023 दिनाङ्के प्रतिभागिभ्यः प्रमाणपत्रवितरणकार्यक्रम: अभवत् । परीक्षायामत्र 97 प्रतिभागिन: आसन् , यत्र 67 छात्रेभ्य: प्रभारीप्राचार्येण प्रो. एम.डी. कुशवाहावर्येण स्वकरकमलेन प्रमाणपत्राणि वितीर्णानि । महाविद्यालये द्वितीयस्थानं प्राप्तवती प्रियङ्का बीएससीप्रथमसत्रस्य बायो ग्रुप् इत्यस्य छात्रा अस्ति, तस्याः स्मृतिप्रमाणपत्रं अपि च ₹ ३०० राशिः दत्ता आसीत्।

महाविद्यालये डा.अरुणिमावर्याद्वारा संस्कृतिज्ञानपरीक्षाया: सततसहयोगमासीत् यस्य परिणामत: छात्रेभ्य: पुरस्कारकार्यक्रम: समारभत् । छात्रेभ्य: डा.अरुणिमावर्यया कथितं यत् एषा परीक्षा सर्वेषाम् कृते संस्कृते: विकासाय अस्ति । प्रभारीप्राचार्य: स्ववक्तव्ये निरन्तरकार्यं कुर्वन् निरन्तरप्रगतेः शुभकामनाम् अयच्छत्। कुलदीपमैन्दोला कोटद्वारसमन्वयकः अपि स्ववक्तव्ये उक्तवान् यत् अस्माभिः स्वसंस्कृत्या सह निरन्तरं अग्रे गन्तव्यम् इति। संस्कृतं संस्कृतिश्च भारतस्य प्रतिष्ठाद्वयम् । संस्कृतम् अस्मान् संस्कृतिं ददाति संस्कृतिः च जीवनं ददाति।
अवसरेस्मिन् परीक्षाप्रभारी डॉ. अभिषेकगोयल:, डॉ. योगिता, डॉ. डी.एस.चौहान:, डॉ. शोभारावत:, डॉ. अरुणिमा, डॉ. रंजना सिंह:, डॉ. तृप्ति दीक्षित:, डॉ. कपिलदेवथपलियाल:, डॉ. धनेन्द्र: , डॉ. सुमनकुकरेती तथा च डॉ. प्रियम-अग्रवाल: आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button