गुरुविरजानन्दगुरुकुल-महाविद्यालये करतारपुरे संस्कृतसम्भाषणशिबिरस्य आरम्भः
केन्द्रीयसंस्कृतविश्वविद्यालय-नवदेहली द्वारा संचालितमुक्तस्वाध्यायपीठस्य संस्कृताध्ययनकेन्द्रे गुरुविरजानन्दगुरुकुलमहाविद्यालये करतारपुरे संस्कृतसम्भाषणशिबिरस्य आरम्भः कृतः। यस्मिन् महाविद्यालयस्य बहव: छात्राः भागं गृहीतवन्तः। संस्कृतसम्भाषणशिबिरस्य उद्घाटनसत्रे गुरुकुलस्य प्राचार्यः संस्कृताध्ययनकेन्द्रस्य केन्द्राधिकारी च डॉ. उदय: आर्यः सर्वेभ्यः प्रतिभागिभ्यः संस्कृतसम्भाषणस्य संस्कृताध्ययनकेन्द्रस्य च विषये सूचनां प्रदातुं सर्वेभ्यः संस्कृताय प्रमुखं स्थानं दातुं प्रोत्साहितवान् । संस्कृतसम्भाषणशिबिरस्य उद्घाटनसत्रस्य मुख्यातिथिः स्वामी प्रवीनः भारतीयसाहित्ये संस्कृतस्य योगदानस्य विषये कथयन् सर्वान् छात्रान् अभिनन्दितवान्। तेन सह शिबिरसंयोजक:, संस्कृताध्ययनकेन्द्रस्य अध्यापकश्च भगवतीप्रसादः सर्वेभ्यः प्रतिभागिभ्यः संस्कृतस्य सूक्ष्मतां व्याख्याय संस्कृतवार्तालापस्य अभ्यासं कारितवान् । अवसरेस्मिन् गुरुकुलमहाविद्यालयस्य सर्वे शिक्षकाः उपस्थिताः आसन्।