उत्तराखण्डविद्वत्सभया (पंजी.) समाचितः पञ्चदशः स्थापनादिवसः संस्थापकसम्मानसमारोहश्च ।
क्लेमेंटटौनक्षेत्रम् – सम्पूज्यसंरक्षकाणां सानिध्ये सभासंस्थापकेभ्यः स्व. श्री केशवानंदथपलियालः, स्व. श्री भगवती प्रसाद: अमोली, स्व. श्री मंगलानंदभट्टः, स्व.श्री संपूर्णानन्दचंदोला इत्येभ्यः कार्तज्ञ्यं प्रदातुं भूतपूर्वान् अध्यक्षान् सम्मानयितुम् एषः वार्षिकोत्सवः “कम्युनिटिहोल- छावनीपरिषद्-टर्नरमार्ग-क्लेमेंटटाउन” इत्यस्मिन् क्षेत्रे धर्मपुरविधायकस्य विनोदचमोलीवर्स्य मुख्यातिथित्वे सम्पन्नः अभूत् । सममेव भाजपानेता महेशपांडेयोऽपि अत्र समुपस्थितः।
कार्यक्रमस्य अध्यक्षः विजेन्द्रप्रसादममगें समागतान् अभिनन्द्य धन्यवादं ज्ञापितवान् विशेषतया धनराशिसहयोगिभ्यश्च । सर्वप्रथमं दीप प्रज्ज्वलनं पंचागपूजनं जातम्। परशुरामचतुर्वेद- विद्यालयस्य बटुकब्रह्मचारिभिः ईशावास्योपनिषदः सस्वरं पारायणं विहितम्। संस्थापकानां प्रतिनिधिषु अजयथपलियालः, दीपक: अमोली, उदयशंकरभट्टः, अजयचंदोला इत्येते अथ च पूर्वाध्यक्षाः उत्कृष्टनेतृत्वहेतवे उदयशंकरभट्टः, अनुसूया प्रसाददेवली, डॉ. संदीपरतूड़ी, जयप्रकाशगोदियालः इत्येते अथ च वैदिकः आचार्यः मंत्रीप्रसादथपलियालश्च तावत्सम्मानिता: अभवन् ।
सांस्कृतिकसचिवः सुभाषचमोली संरक्षकं डा. रामभूषणबिजल्वाणं, पौरोहितसमाजस्य अध्यक्षं प्रेमबिंजोलां, महासचिवं हर्षपतिघिण्डियालम्, अखिलब्राह्मणमहासभायाः पदाधिकारिणः , नेपालीब्राह्मणसभां, स्थानीयब्रह्मसमाजम्, आचार्यचंद्रप्रकाशजोशीवर्यं, नृसिंहधामतः शशीकांतदुबे कीर्तनमंडलीं समेत्य समागतातिथीन् अभिनन्द्य स्वागतम् अकरोत्।
हंसाग्रुपसंस्कृतिविभाग-उत्तराखंडस्य कलाकारैः गणेशवंदनासहितं गढ़वालीकुमाऊनीलोकगीतानां मनमोहिका प्रस्तुतिः इत्यादिकम् अभिनीतम् ।
समागतानाम् आतिथ्यं उपाध्यक्षः सत्यप्रसादसेमवालः, मंचसंचालनं महासचिवः दिनेशप्रसादभट्टः , अपेक्षितसहयोगं मुरलीधरसेमवालः, कोषवृत्तोल्लेखसहितं सर्वेभ्य: धनराशिप्रदातृभ्यः कार्तज्ञज्ञापनं कोषाध्यक्षः अजयडबरालः, प्रस्तावितकथनपरामर्शकः राजेश: अमोली, स्वागतभाषणं , समायोजनं प्रसारणं प्रवक्ता मुकेशपंतः पर्यवेक्षणं च लेखानिरीक्षकः उमेशप्रकाशभट्टः अकुर्वन्। अवसरेऽस्मिन् पूर्वसचिवः चंद्रप्रकाशममगाईं, हर्षपतिगोदियालः, वाचस्पतिडिमरी, रमेशभट्टः, जयदेवसुंदरियालः, कालिकाभवनप्रबंधकः, रोशनडबरालः इत्यादीन् समेत्य पूर्वपदाधिकारिणः, स्थानीयब्राह्मणाः, आजीवनसदस्याः , लोकमान्यविद्वज्जनाः वर्तमानकार्यकारिण्या भुवनेशथपलियालः, दीपक: अमोली, परशुराम: उनियालः , धीरजमैठाणी , स्थानीयसभानुरागिणो ब्राह्मणाः, मातृशक्तयो भगिन्यश्च समुपस्थिताः आसन् ।