उत्तराखण्डे विधानसभायां मन्त्रिणां विधायकानां च संस्कृतेन ऐतिहासिकं सम्भाषणं
विशेषकार्यक्रमस्य आयोजनं विधानसभाध्यक्षा ऋतुभूषणखण्डूडी तथा च मुख्यमन्त्रीपुष्करसिंहधामी इत्यनयोः विशेषनिर्देशानुसारं समारभत्

उत्तराखण्डराज्यस्य द्वितीयराजभाषाया: संवर्धनाय च संरक्षणाय विधानसभाभवने द्वितीयवारं पञ्चतमसदनसत्रे मन्त्रिणां ऐतिहासिकः संस्कृतसम्भाषणकार्यक्रमः समारभत् । अस्मिन् विशेषसंवेशने राज्यस्य द्वितीयराजभाषा-स्वरूपेण संस्कृतभाषायाः प्रोत्साहनार्थं सर्वे माननीयाः मन्त्रिगणा: विधायकाः च सरलसंस्कृतसंभाषणस्य अभ्यासं कृतवन्तः। येन विधानसभायाः वातावरणं संस्कृतमयं जातम्।

अस्य विशेषकार्यक्रमस्य आयोजनं विधानसभाध्यक्षा ऋतुभूषणखण्डूडी तथा च मुख्यमन्त्रीपुष्करसिंहधामी इत्यनयोः विशेषनिर्देशानुसारं सम्पन्नमभवत्। अस्य आयोजनस्य मुख्योद्देश्यः संस्कृतभाषायाः संवर्धनं तथा सर्वकारीयकार्येषु तस्याः उपयोगः वर्धमानः करणीयरूपेण स्थापयितुं प्रयासः वर्तते। संस्कृतशिक्षाविभागस्य सहयोगेन संस्कृताकादम्याः सहकारेण मन्त्रिणः विधायकाः च सरलसंस्कृतसम्भाषणस्य प्रशिक्षणं प्राप्तवन्तः।

अस्मिन् सन्दर्भे विधानसभाध्यक्षा ऋतुभूषणखण्डूरी उवाच— “संस्कृतभाषायाः संरक्षणं संवर्धनं च भारतस्य विश्वगुरुपथं प्रदर्शयति। अस्मत्सर्वकारेण संस्कृतभाषायै द्वितीयराजभाषारूपेण सम्मानं दत्तमस्ति। अस्माभिः अपि एषा भाषा प्रतिदिनजीवने उपयोगं कर्तव्या।”

शिक्षामन्त्री तथा संस्कृतशिक्षामन्त्री डॉ. धनसिंहरावत: अपि उक्तवान् यत्— “राज्ये १३ जनपदेषु १३ ग्रामाः संस्कृतग्रामरूपेण घोषिताः। तत्र प्रशिक्षकाः नियुक्ताः सन्ति ये ग्रामीणजनानां कृते सरलसंस्कृतसम्भाषणस्य शिक्षणं दास्यन्ति।” संस्कृतशिक्षाविभागस्य अधिकृतानां प्रशंसां कृत्वा तान् शुभाशंसाः अपि दत्ताः।
https://www.facebook.com/share/p/1CsUBKGQJh/
अस्मिन् महत्वपूर्णकार्यक्रमे माननीया: विधायकगणा:, कैबिनेटमन्त्री सुबोधः उनियाल:, सौरभः बहुगुणा, विधायकः बृजभूषणः गैरोला, सविता कपूर:, उमेशकुमारः, रेनूबिष्ट:, सचिवः दीपकः गैरोला, निदेशकः आनन्दः भारद्वाज:, उपनिदेशकः डॉ. चण्डीप्रसादः घिल्डियाल:, संस्कृताकादम्याः सचिवः डा. वाजश्रवा आर्य:, पंकजः पालीवाल: आचार्य: गणेशफोन्दणी, इत्यादयः गणमान्यव्यक्तयः उपस्थिताः आसन्। सम्भाषणस्य संवादं संस्कृताकादम्या: शोधाधिकारी हरीशगुरुरानी कारितवान्।
अयं कार्यक्रमः उत्तराखण्डसर्वकारस्य संस्कृतस्य संरक्षणे संवर्धने च दृढसंकल्पं दर्शयति। एतेन प्रयासेन भावीसन्ततय: स्वसंस्कृतिकसमृद्धौ सन्नद्धाः भविष्यन्ति।







