श्रीगुरूरामरायसंस्कृत- महाविद्यालयदेहरादूनपरतया विशालशोभायात्रा संस्कृतसप्ताहसम्पूर्ति च जाता
वार्ताप्रेषक:-धीरजमैठाणी। प्रतिवर्षमिव सामान्यजनमानसे जनजागृतिहेतवे संस्कृतसप्ताहस्य अन्तर्गतानां प्रदेशे समाचरितसंस्कृतकार्यक्रमाणां सम्पूर्तौ देहरादूनमहानगरे श्रीगुरुरामरायलक्ष्मणसंस्कृतमहाविद्यालयस्य परतया देहरादूनस्य महापौरः श्रीसुनील-उनियालगामाः, प्रख्यातकथावाचकः आचार्यः सुभाषजोशी, यात्रायाः पुरोधा लक्ष्मणसंस्कृतविद्यालयस्य प्राचार्यः डॉ रामभूषणबिजल्वाणः, श्रीशिवनाथसंस्कृतविद्यालयस्य प्राचार्यः डॉ. रामप्रसादथपलियालः, उत्तराखण्डविद्वतसभायाः अध्यक्षः विजेंद्रममगाईं, उत्तराखण्डपुरोहितसमाजस्य अध्यक्षः प्रेमबिञ्जोला, संस्कृतच्छात्रसेवासमितेः अध्यक्षः शिवम्अवस्थी , संस्कृतभारतीउत्तराञ्चलप्रान्तस्यसङ्घटनमन्त्री गौरवशास्त्री, यमकेश्वरस्य पूर्वजिलापञ्चायतः आरतीगौडः, जनपदमन्त्री प्रदीपसेमवालः इत्येषां गणमान्यानां परमसहयोगेन समाहारेण च दिव्या भव्या अदृष्टपूर्वा संस्कृतशोभायात्रा सम्पन्ना। तत्र विशेषेण विद्यालयप्रबंधकसमितेः चन्द्रमोहनसिंहपय्यारी यात्रा संयोजकः आचार्यमनोजशर्मा, सहसंयोजकः आचार्यनवीनभट्टः , आचार्यआशाराममैठाणी इत्येषां कुशलसंयोजनेन सम्पन्ना। ततश्च अन्येषां गणमान्यानां सहभागितया एम के पीमहाविद्यालयात् मीनाक्षीगार्डनपर्यन्तम् इयं शोभा विरमिता। सम्पूर्तिसत्रे 108 महन्तकृष्णागिरीमहाराजः संस्कृतं पठितुकामं छात्रवर्गं सम्प्रेरयितुं परामृष्टवान्। संस्कृतभारतीउत्तराञ्चलप्रान्तस्य सङ्गटनमन्त्री गौरवशास्त्री संस्कृतम् आदर्शजीवनहेतवे प्रत्यपादयत्।
यात्रायाः अस्याः पुरोधा डॉ राम भूषणबिजल्वाणः सर्वेभ्यः सहयोगिसंस्थाभ्यः समागतेभ्यो धन्यवादं ज्ञापितवान्।
अमुष्मिन् अवसरे विशेषेण डॉ सीमाबिजल्वाण, डॉ मनीषाभण्डारी, आरतीरतूडी, दीपशिखा, डा शैलेंद्रडङ्गवालः, डॉ मीनाक्षीकोठारी, संस्कृतभारतीतः डॉ प्रदीपसेमवालः, डॉआनन्दजोशी, धीरजमैठाणी, पुरोहितसमाजपरतया संरक्षकः कलशानन्दसेमवालः, विनोदकोठारी, मितानंदनौटियाल, सुभाषडिमरी, हर्षपतिगोदियाल, गोपालकाला, अमितकाला, लक्ष्मीममगाईं , रामः, कृष्णबगवालः, तोतारामः , मनोजः, सुनीलः विद्वत्सभातः भगवतीप्रसादथपलियालः, सुरेन्द्रबलूनी, राधाकृष्णवैदिकः इत्येतान् समेत्य राजकीयबालिकाविद्यालयराजपुरमार्गः, सरस्वतीविद्यामन्दिरम्, सुमननगरम्, द्रोणस्थलीआर्ष कन्यागुरुकुलं, राजपुरमार्गः, सविशेषं श्रीगुरुरामरायलक्ष्मणसंस्कृत महाविद्यालयः , श्रीशिवनाथ संस्कृतमहाविद्यालयः प्रीतममार्गः, एम.के.पी. उच्चतरमाध्यमिकविद्यालयः, राजकीयबालिकाउच्चतरमाध्यमिकविद्यालयः अजबपुरं , सनातनधर्म- उच्चतरमाध्यमिक- विद्यालयः बन्नू , डी.डी.महाविद्यालयः नीम्बूवाला, गुरुनानकमहिला उच्चतर-माध्यमिक- विद्यालयः रेसकोर्स इत्येषां सहयोगि- विद्यालयानां एन.सी.सी./ छात्रच्छात्राः तत्र सम्मिलिताः । अथ च विशिष्टायां दिव्यभव्यायां संस्कृतस्य गौरवपरिचायिकायां , द्रोणनगरीदेहरादूने संस्कृतस्य वैभवप्रदर्शिकायां, संस्कृताभिमानिनां स्वाभिमानस्य संवर्धिकायां, संस्कृतप्रचारिकायां प्रसारिकायां अजातपूर्वस्यां विशालसंस्कृतशोभायात्रायां नैके विद्वज्जनाः सामाजिकाः संस्कृतानुरागिणः समुपस्थिताः आसन्।