संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

श्रीगरीबदासीयसाधुसंस्कृतमहाविद्यालयेन दीपप्रज्वलनेन वैदिकमन्त्रजपेन च सुन्दरः कार्यक्रमः आयोजितः च शोभायात्रा सुसम्पन्ना

संस्कृतेरेव संस्कृतम् अस्माकं धरोहर: - "उज्ज्वलपण्डितः"

अद्य संस्कृतसप्ताहस्य अवसरे आयोजितैः विविधैः संस्कृतकार्यक्रमैः सह संस्कृतशोभायात्रायाः सह श्रीगरीबदासीयसाधुसंस्कृतमहाविद्यालयस्य सभागारस्य जगजीतपुरकङ्खलस्य हरिद्वारस्य सभागारे दीपप्रज्वलनेन वैदिकमन्त्रजपेन च सुन्दरः कार्यक्रमः आयोजितः ।

कार्यक्रमस्य अध्यक्षः महाविद्यालयस्य प्राचार्यः डॉ. प्रेरणा गर्गः तथा कार्यक्रमस्य मुख्यातिथिः गंगासभासचिवः उज्ज्वलपंडितः भारतीयजनतापार्टीतिदलोपाध्यक्षः तथा महाविद्यालयस्य शिक्षकाणां माध्यमेन कार्यक्रमस्य आरम्भः सञ्जात:। सप्ताहे कार्यक्रमे संस्कृतविषये चर्चा, अनुभवकथनम्, संस्कृते गीतानि श्लोकान् च पाठयित्वा सम्भाषणं च छात्रैः कार्यान्वितम् कृतम्। कार्यक्रमे मुख्यातिथिः उज्ज्वलपण्डितः संस्कृतेरेव संस्कृतम् अस्माकं धरोहर: विषयेस्मिन् बलं दत्तवान् तथा च संस्कृतस्य रक्षणाय, प्रचाराय च सम्पूर्णं जनमानसं सर्वात्मना, मनसा, धनेन च अग्रे आगन्तुम् आह्वानं कृतवान्। अस्मिन् एव क्रमे आचार्य: केशवदत्तबलियानी इत्यनेन संस्कृतस्य माध्यमेन मञ्चस्य संचालनं कृतम् । महाविद्यालयस्य सर्वे शिक्षकाः छात्राणां कृते आशीर्वादं दत्तवन्तः । डॉ. डंबरप्रसादपौडेल:, आचार्य: श्यामकांतचापागाई , मुकेशपाराशर:, रामनरेशशर्मा, दुर्गादत्तजोशी, प्रियदर्शिनी ओली शिवमजोशी नमनजोशी अनिल: दक्ष: ध्रुव: दीपकश्चादय: कार्यक्रमे उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button