संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

नाभानगरे निगमस्वरूपमहोदयस्या-ध्यक्षतायां संगोष्ठ्यां चर्चा सम्पन्ना,त्रीणि शिविराणि च प्रचलन्ति

एवमागामी बुधवासरात् सांयकालात् पञ्चवादनात् षड्वादन – पर्यन्तम् एकस्य सामजिक शिबिरस्य घोषणा जाता । एतत् शिबिरं दयानन्द पब्लिक विद्यालय पांडुसरे भविष्यति । एतानि सर्वाणि शिबिराणि नाभा नगर विस्तारक: मनीष महोदयेन द्वारा संचालमानानि सन्ति

अद्य नाभानगरे जनपदाध्यक्षः श्री निगमस्वरूपमहोदयस्याध्यक्षतायां दयानन्दपब्लिकस्कूलपाण्डुसरे नगरसंगोष्ठी सम्पन्ना जाता। यस्मिन् पञ्जाब प्रान्तस्य प्रान्त- मन्त्री श्रीमन् संजीवश्रीवास्तवमहोदयेन संस्कृतभारत्याः परिचयः दत्तः तथा तस्य प्रकल्पानां विषये प्रबोधनं कारितम् । डॉ. उदयन: प्रान्त -संपर्क -प्रमुख महोदयेन ‘ संस्कृतं किमर्थम् आवश्यकम् ‘ अस्मिन् विषये बोधितम् । प्रान्तसहमन्त्री अजय -आर्यः महोदयेन वर्तमाने नाभा नगरे संस्कृतभारत्याः प्रचल्यानाम् कार्याणां विस्तारपूर्वक वर्णनं कृतम् । वर्तमाने त्रिषु विद्यालयेषु शिबिराणि प्रचल्यमानानि सन्ति । एकं शिबिरं प्रातःदयानन्द-पब्लिक-विद्यालय-पांडुसरे ७:३० तः ८:३० वादन पर्यन्तं चलति । द्वितीयं शिबिरं भाई -काह्र – सिंह राजकीय – सिनियर – स्कैन्ड्री- स्मार्ट -कन्या – विद्यालय नाभायां ९ः ०० तः ११:०० वादन पर्यन्तं चलति । तृतीयं शिबिरं राजकीय -मॉडल – हाई – विद्यालय -नाभायां १२ः ४० तः ०१: ३० पर्यन्तं चलति । यस्मिन् महोदयेन नाभा नगराय आगतः नूतनस्य विस्तारकस्य श्रीमन् मनीष महोदयस्य परिचयः तत्रत्यै: सामाजिक – जनैः सह कारितः । एवमागामी बुधवासरात् सांयकालात् पञ्चवादनात् षड्वादन – पर्यन्तम् एकस्य सामजिक शिबिरस्य घोषणा जाता । एतत् शिबिरं दयानन्द पब्लिक विद्यालय पांडुसरे भविष्यति । एतानि सर्वाणि शिबिराणि नाभा नगर विस्तारक: मनीष महोदयेन द्वारा संचालमानानि सन्ति । अस्यां गोष्ठ्याम् २५ संस्कृतनुरागिना: आगताः । जलपानस्य व्यवस्था दयानन्द पब्लिक विद्यालयस्य प्रचायेण कृतम् । गोष्ठ्यां गिरधारी लाल महोदयः , नगरसहसंयोजक: मोहितमहोदयः, अनिल महोदयः नगरव्यवस्थाप्रमुखः , दयानन्द विद्यालयस्य प्रधानाचार्य: श्रीमन्सुभाषमहोदयः , श्रीमन्सोमनाथशर्मामहोदयः , चन्द्रशेखरमहोदयः , दीपकमहोदय: , अर्शदीपमहोदया , आयुर्वेदाचार्यगगनदीप महोदयः आदयः संस्कृतप्रेमीजनाः भागं गृहीतवन्तः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button