उत्तराखण्डऋषिकेशदेहरादून

द्वितीयराजभाषायाः कार्यक्रमस्य क्रियान्वयनम्

देहरादूनजनपदे केंद्रराज्यसर्वकारयोः सर्वविभागेषु नामपट्टिका: भविष्यन्ति संस्कृतेन , तदर्थं अधिकारिण: नियुक्ता: अभवन्

ऋषिकेश:। शिक्षायाः संस्कृत-शिक्षायाः च सहायकनिदेशक: डॉ॰ चण्डीप्रसादः घिल्डियालः अवदत् यत् केंद्रराज्ययोः सर्वेषां सर्वकारीविभागानां नामपट्टिका च निश्चितकालसीमायाः अन्तर्गतं द्वितीयराजभाषारूपेण संस्कृतभाषारूपेण च अपि आवश्यकतया स्थापनीया इति।

द्वितीयराजभाषाकार्यक्रमस्य क्रियान्वयनस्य अन्तर्गतम् सहायक-निदेशकः अद्य ऋषिकेशे भरतमन्दिर-संस्कृत-महाविद्यालये देहरादून-जनपदस्य संस्कृत-माध्यमिकानाम् महाविद्यालयानां च प्रधानाचार्याणां संयुक्त-सभायाम् उक्तवान्। तेन उक्तम् यत् इदं कार्यानुष्ठानम् सुसम्पन्नं स्यात् इति । खण्डस्तरे प्रधानाचार्याणां दायित्वाधिकारीरूपेण वरिष्ठ-प्रवक्तॄणां च सह-प्रभारीरूपेण नियुक्तिम् कृतवान्। ते सर्वे प्रत्येकस्य सप्ताहस्य गुरुवासरे स्व-प्रतिवेदनं तस्मै समर्पयिष्यन्ति, यत् सः शुक्रवासरे शासनाय प्रेषयिष्यन्ति।

सहायक-निदेशकः डॉ॰ चण्डीप्रसादः घिल्डियालः उक्तवान् यत् ७ फेब्रुअरी २०२४ दिनाङ्के तत्कालीन-मुख्य-सचिवर्यया श्रीमत्या राधारतूडीद्वारा सर्वविभागाध्यक्षेभ्यः तथा जिलाधिकारीभ्यः च आदेशः प्रदत्तः आसीत् यत् सर्वविभागेषु नामपट्टिकाः च द्वितीयराजभाषासंस्कृतभाषारूपेण स्थापनीया इति। तस्या: आदेशस्य अनुसरणं कुर्वन् संस्कृतशिक्षाविभागस्य सचिवः दीपककुमारः उत्तराखण्डराज्ये शतशः नामपट्टिकाः संस्कृतभाषायां लेखनं कारितवान्, अद्यापि च कार्यं तीव्रगत्या सह सञ्चाल्यते।

सहायक-निदेशकः उक्तवान् यत् देहरादून-जनपदस्य षट्-विकासखण्डेषु नियुक्ताः नवदलाधिकारिण: निम्नप्रकारेण सन्ति – डविवालाखण्डाय डॉ॰ ओमप्रकाशः पूर्वालः, रायपुरखण्डाय कन्यामहाविद्यालयस्य प्रधानाचार्या डॉ॰ दीपशिखा, सहसपुरखण्डाय प्रो॰ विद्यानेगी, विकासनगराय डॉ॰ शैलेन्द्रडंगवालः, चकराताय डॉ॰ रामभूषणबिजलवाण:, कालसीखण्डाय डॉ॰ मुकेशखण्डूरी च नियुक्ता: अभवन् । एतेषां खण्ड-नवदलाधिकारिणां पर्यवेक्षणं जिला-स्तरे डॉ॰ मनीषाभण्डारी शिवनाथ-संस्कृत-महाविद्यालयस्य प्राचार्या करिष्यति। तेन उक्तं यत् यः विभागाध्यक्षः अत्र अनवधानं करिष्यति, तस्मिन् विषये प्रत्यक्षं जिलाधिकारीद्वारा कार्यवाही क्रियते ।

सभायां सर्वे विकासखण्ड-नवदलाधिकारिणः, शासकीय-अशासकीय-विद्यालय-महाविद्यालयानां प्रधानाचार्या:, वरिष्ठ-शिक्षका:, कर्मचारिणः च सन्निहिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button