द्वितीय-राजभाषासंस्कृतभाषायाः उन्नयनार्थं संस्कृतभारत्याः प्रतिनिधिमण्डलेन मुख्यमन्त्रीधामीवर्येण सह मेलनं कृतम्
उत्तराखण्डराज्यं शीघ्रमेव राष्ट्रे संस्कृतभाषायाः क्षेत्रे आदर्शरूपेण प्रतिष्ठां प्राप्स्यति

उत्तराखण्डराज्ये संस्कृतभारत्याः प्रान्तसंगठनमंत्री श्री गौरव-शास्त्री, प्रान्त-मन्त्री श्री गिरीश-तिवारी, च कोषाध्यक्षः श्री अंकित-वर्मा इत्येते त्रयः प्रतिनिधयः राज्यस्य द्वितीय-राजभाषाया: सन्दर्भे संस्कृतभाषायाः उन्नयनं च तत्सम्बन्धिनां विविध-समस्यानां समाधानं कर्तुं च तत्विषयीकृत्य माननीय-मुख्यमन्त्रिणं श्रीपुष्कर-सिंह-धामीवर्यं मिलितवन्त: ।
प्रतिनिधिमण्डलेन मुख्यमन्त्रिणः समक्षं निम्नलिखितविषया: प्रस्तुतीकृता:
🔵 प्रदेशे संस्कृतशिक्षकाणां रिक्तस्थानं शीघ्रं पूरयितुं,
🔵 संस्कृतविद्यालयेषु च महाविद्यालयेषु च शिक्षकेषु विद्यमानसमस्यायाः शीघ्रं समाधानं कर्तुं,
🔵 शिक्षणसंस्थायाः नियमितं च प्रभावकारी संचालनं सुनिश्चितं कर्तुं,
🔵 राज्यसर्वकारस्य विविधविभागेषु द्वितीय-राजभाषारूपेण संस्कृतभाषायाः व्यवहारं प्रवर्तयितुं,
🔵 संस्कृतभाषायाः प्रोत्साहनं,
🔵 तथा संस्कृतसम्बद्धेषु शोधकार्येषु विशेषानुदानं दातुं।
मुख्यमन्त्रिणा श्री-धामीवर्येण प्रतिनिधिमण्डलम् आश्वासितम् यत् राज्यसर्वकारः संस्कृतभाषायाः विकासाय संरक्षणाय च पूर्णतः प्रतिबद्धः अस्ति, एवं सर्वासां समस्यानां शीघ्रं समाधानं करिष्यते इति। तेनेदम् अपि उक्तं यत् संस्कृतभाषायाः क्षेत्रे संस्कृतभारत्या यः सततः प्रयासः क्रियते, सः प्रशंसनीयः एव।
संस्कृतभारत्या अनेन सकारात्मक-आश्वासनेन मुख्यमन्त्रिणं श्री पुष्कर-सिंह-धामीवर्यं प्रति हार्दं कृतज्ञतां प्रकटितवती, तथा आशां व्यक्तवती यत् उत्तराखण्डराज्यं शीघ्रमेव राष्ट्रे संस्कृतभाषायाः क्षेत्रे आदर्शरूपेण प्रतिष्ठां प्राप्स्यति।