उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

अन्ताराष्ट्रिययोगदिवसे बालयोगी सार्थककण्डवालसहितं २१ योगसाधकाः सम्मानिताः

कोटद्वारम्। अन्ताराष्ट्रिययोगदिवसस्य शुभावसरे भारतस्वाभिमानन्यासेन कोटद्वारस्थे मालवीयोद्यानमध्ये भव्यं योगकार्यक्रमं आयोज्य योगदिवस: समाचरित:। अस्मिन्नवसरे बालयोगी सार्थककण्डवालसहितं ई-टेक्नोमाइण्ड् सार्थकयोगशालायाः २१ योगसाधकान् माननीयविधायिकया श्रीमत्या ऋतुखण्डूड़ीभूषणेन विशेषतः सम्मानिताः।

कार्यक्रमे प्रतिभागिभ्यः योगस्य आसनेन
विशेषरूपेण सम्मानः समर्पितः। एषः आयोजनः आयुषमंत्रालयस्य “योगसंगम:” इत्यस्य प्रयासान्तर्गतं सम्पन्नम्, यत्र शतशः योगानुरागिणः सम्मिल्य योगं प्रति स्वां श्रद्धां समर्पणञ्च प्रकटितवन्तः।

बालयोगी सार्थककण्डवालः, य: राष्ट्रीययोगासनस्पर्धायां द्वौ सुवर्णपदकौ प्राप्तवान्, स: राज्यस्तरे च राष्ट्रीयस्तरे च योगे विशिष्टं प्रदर्शनं कृतवान्, विशेषतया सम्मानम् अर्हताम्। सार्थकः केवलं स्वं योगाभ्यासं न कुर्वन्, अपि तु अनेके बालकान् योगे प्रशिक्षयति स्म।

स्वीयं भाषणं कृत्वा माननीया विधायिका अवदत्— “योगः अस्माकं जीवनस्य दिशां च दशां च उभयं परिष्कर्तुं शक्नोति। यदा बालकाः योगमार्गे अग्रसरन्ते, तदा समाजः राष्ट्रं च सशक्तं भवति।”

कार्यक्रमस्य समापनं सामूहिकयोगाभ्यासेन “योगेन एव सम्पूर्णस्वास्थ्यं सम्भवति” इति संकल्पेन सह अभवत्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button