उत्तराखण्डदेशदेहरादून

उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

मत्तूरुसदृशं उत्तराखण्डसंस्कृतग्रामाणां विकास: भविष्यति

कर्नाटकराज्ये स्थितं मत्तूरु-संस्कृतग्रामम् यत्र ग्रामवासिनः प्रायः सर्वे संस्कृतभाषायाम् एव नित्यजीवनं यापयन्ति, तत्र उत्तराखण्डशासनस्य एकं विशिष्टं शैक्षिकशिष्टमण्डलं शैक्षिकभ्रमणार्थं समागतम्। भ्रमणमेतत् माननीयस्य उत्तराखण्ड-संस्कृत-शिक्षामन्त्रिण: श्रीधनसिंहरावत-महोदयस्य नेतृत्वे सम्पन्नः।

एते शिष्टाः मत्तूरुग्रामस्य संस्कृतजीवनम्, शिक्षणप्रणालीम्, बालानां संस्कृतशिक्षायाः प्राविण्यम्, ग्रामस्य सामाजिकसंरचनाम् च समीक्ष्य साक्षात् अनुभवम् अलभन्त।

शिष्टमण्डले सम्मिलिताः सन्ति —

उत्तराखण्डराज्यस्य सचिवः श्रीदीपककुमार महोदयः,

उत्तराखण्ड-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. दिनेशचन्द्रशास्त्री,

संस्कृतशिक्षानिदेशकः डा. आनन्दभारद्वाजः,

उत्तराखण्ड-संस्कृत-अकादम्याः सचिवः डा. वाजश्रवा आर्यः,

शोधाधिकारी हरीशगुरुरानी

प्रकाशनाधिकारी श्रीकिशोरीलाल रतूडी च।

सर्वे अपि संस्कृतग्रामे वर्तमाने संस्कृतजीवनस्य प्रत्यक्षदर्शिनः जाताः। ग्रामस्य विद्यालये छात्रैः सह संवादः अपि आयोज्यते स्म। छात्राः उत्तमं संस्कृतभाषाप्रयोगं दर्शितवन्तः। कुलपतिना प्रो. दिनेशचन्द्रशास्त्रिणा च कथितं यत् —
“संस्कृतं केवलं शिक्षायाः विषयः न, अपि तु जीवनधाराऽपि अस्ति। मत्तूरु अस्य जीवितोदाहरणम् अस्ति।” शिष्टैः ग्रामस्य वरिष्ठैः तथा शिक्षकैः अपि विचारविनिमयः कृतः। परम्परागतं शिक्षणं, नवाचारयुक्तं पद्धतयः च गभीरतया समीकृताः। भ्रमणमेतत् उत्तराखण्डे संस्कृतशिक्षायाः विकासाय योजनानां निर्माणे प्रेरणास्रोतः भविष्यति इति विश्रासः।

शिक्षामन्त्रिणा डॉ.धनसिंहरावतवर्येण उक्तं यत् कर्नाटकराज्यस्य शिवमोग्गाजनपदे स्थितं “मत्तूर” इत्यस्मिन् संस्कृतग्रामे एव उत्तराखण्डराज्यस्य संस्कृतग्रामाणां विकासाय प्रेरणा प्राप्ता अस्ति। “मत्तूर” ग्रामस्य अनुकरणं कृत्वा उत्तराखण्डेऽपि संस्कृतग्रामाणां स्थापनाय प्रयासाः क्रियन्ते।

कर्नाटकराज्यस्य मत्तूरग्रामे प्रतिदिनं सामान्यजीवनं संस्कृतभाषायामेव सम्पद्यते। गृहकर्म, विद्यालयशिक्षा, व्यवहारः, चर्चाः, उत्सवाः, विवाहश्च अपि संस्कृतेनैव सम्पाद्यन्ते। एषः ग्रामः संस्कृतभाषायाः जीवतः दर्शनं ददाति।

शिक्षामन्त्री डॉ. रावतमहोदयः स्वगमनकाले मत्तूरग्रामे निवासिनः साक्षात्कृतवान्। तेन दृष्टं यत् संस्कृतं केवलं भाषा नास्ति, अपि तु जीवनशैली अपि अस्ति। अनेन अनुभवेन प्रेरितः शिक्षामन्त्री उत्तराखण्डराज्ये अपि तथैव संस्कृतग्रामाणां विकासं कर्तुं संकल्पं कृतवान्।

तेन उक्तं यत् – “संस्कृतं भारतस्य गौरवस्य प्रतीकम् अस्ति। संस्कृतग्रामा: तु परम्परायाः, भाषायाः च रक्षणाय अत्यावश्यका: । एते ग्रामाः संस्कृतस्य च संस्कृतेः जीवत्वं प्रकाशयन्ति।” राज्ये स्थापनया एतेषां ग्रामाणां जनाः संस्कृतभाषायाः महत्त्वं बोधिष्यन्ति, च विद्यालयेषु अपि संस्कृताध्ययनस्य वृत्तिः वर्धिष्यते।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button