दिल्ल्यां बाल-भारती पब्लिक-विद्यालये सम्पन्नं भव्यं साहित्यिकमनुष्ठानम्

पौराणिक-पात्राभिनयेन, काव्य-पाठेन च सहितं राष्ट्रभक्त्या ऊर्जसा च ओतप्रोतमेकं भव्यं साहित्यिकम् अनुष्ठानम् ‘सर गंगाराम हॉस्पिटल-मार्ग’-स्थिते बाल-भारती पब्लिक विद्यालयस्य वरिष्ठ-विभागस्य वर्णाकुलर क्लब-द्वारा विद्यालयस्यैव पुस्तकालये सफलता-पूर्वकमनुष्ठितम्। एतस्मिन् भव्ये सभ्ये दिव्ये च साहित्यिकायोजने कक्षा-नवमी-त: एकादशीं कक्षां पर्यन्तं पारेशतं प्रतिभागिन: छात्र-छात्रा: स्वीयोजमयेन लालित्यपूर्णेन पौराणिकाभिनयेन विविध-रस-संवलितेन साहित्यिक-रचनानां पाठेन च श्रोतृजनान् मन्त्रमुग्धीकृतवन्तः।
प्रधानाचार्यस्य श्रीयुत-लक्षवीर-सहगल-वर्यस्य प्रेरणाभि: दिशा निर्देशेन च एतत् साहित्यिकम् अनुष्ठानम् अनुष्ठितम् अभूत्। विद्यालयस्य उपप्रधानाचार्या श्रीयुता विनीता-धवन-वर्या एतस्य साहित्यिकानुष्ठानस्य औद्घाटनिके वक्तव्ये प्रावोचत् यत् भारतस्य एकता-साधने सनातन-संस्कृतेश्च रक्षायां पौराणिक-साहित्यस्य महती भूमिका-विषये प्रकाशम् अक्षिपत् ।
मुख्यातिथि: डॉ. सतेन्द्र कुमार-शुक्ल-वर्य: “साहित्य और संवेदना” इति शीर्षकमाश्रित्य छात्रान् अनेक-प्रेरक-प्रसङ्गाणां श्रावणेन तान् साहित्याध्ययनार्थं प्रैरयत्। युगपदेव साहित्यं समाजस्य दर्पण: अस्तीति प्रतिपादयन् छात्राणाम् अभिनय-संवादं काव्यपाठञ्च श्लाघितवान्।
कार्यक्रमस्य आरम्भे नवमी कक्षाया: दिव्यांशी छौलसिंह: मधुरेण स्वरेण डॉ. युवराज-भट्टराई-विरचितं स्वागतगीतं श्रावितवती। ततश्च नवमी कक्षाया: एव भृति: सहगल:, कीर्तिः बाली, नायसा-ईशर:, त्विषा सहगल:, दक्ष सिंह:, शिवांश-भसीन: सम्यक् गडोडिया प्रभृतयः छात्राः लौकिकं वैदिकं च मङ्गलाचरणं विहितवन्त:।
तदनु मुख्यातिथित्वेन समुपस्थितस्य दिल्लीविश्वविद्यालयस्य अङ्गभूतस्य रामजस-महाविद्यालयस्य सहायकाचार्यस्य डॉ. सतेन्द्र-कुमार-शुक्लस्य स्वागतसत्कारम् उपप्रधानाचार्या पौराणिकताया: प्रतीकभूतं श्रीमद्भगवद्गीताग्रन्थं प्रदाय व्यदधात्। अथ च वरिष्ठहिन्दीशिक्षिका डॉ. सुनीतारावत: अंग वस्त्रप्रदानेन हरित-पादप-प्रदानेन च मुख्यतिथिं सम्मानितवती।

कार्यक्रममञ्चस्य कुशल-सञ्चालनं दशम्या: कक्षाया: छात्रा: हनिका-जिंदल:, सान्वी-जैन:, शिविका-सिंघल:, भव्या-भूटानी चेत्यादय: कृतवन्तः, एताभिः स्वीय-वाण्या समस्तमपि आयोजनं सुव्यवस्थितं रोचकं च कृतम्। समस्त-कार्यक्रमस्य संयोजक: समवाप्तसाहित्याकादेमीयुवपुरस्कार: विद्यालयस्यैव वरिष्ठ: संस्कृत-हिंदी-शिक्षक: डॉ. युवराज-भट्टराईवर्य: आसीत्, यस्य अश्रान्त-प्रयासेन एष: कार्यक्रम: भव्यरूपेण सम्पन्न: अभवत्।
कार्यक्रमस्य मुख्यात्मत्वेन विराजमाना: विद्यालयस्य प्रतिभावन्त: छात्र छात्रा:, यै: निज-पौराणिक-पात्राभिनयत्वेन राष्ट्रभक्त्या विविधविधानां काव्य-पाठेन च अतिथीनां शिक्षकाणां च मनांसि विजितानि।
अस्य कार्यक्रमस्य उद्देश्य: छात्रेषु पौराणिक-साहित्यस्य कोमल-भावनानां प्रबोधन-पूर्वकं तेषां हृदयेषु साहित्यिक-संवेदनाया: सञ्चारीकरणमप्यासीत्।
ध्यानास्पदमस्ति यत् छात्रै: पात्राभिनयेन साकं हास्य-व्यंग्यसमेतानां विविध-रसानां काव्यपाठेन कार्यक्रमे विविधताया: समावेश: कृतः। सभागारे पारेशतं संख्यायां विद्यमानै: साहित्य-प्रेमिभि: छात्र-छात्रै: आयोजनमिदम् ऐतिहासिकं कृतम्। कार्यक्रमस्य समापने हिंदीशिक्षक: श्रीयुत उमेश-भारद्वाज: धन्यवादज्ञापनं प्रास्तौत्।
“पौराणिकपात्राभिनय: काव्यपाठश्च” न केवलमेकं साहित्यिकम् अनुष्ठानं सिद्धम्, प्रत्युत एतद्धि भारतीय-संस्कृते:, राष्ट्रभक्ते: साहित्यिक-विविधातायाश्च समन्वयस्य अद्भुतम् उदाहरणम् अजायत। एतस्मिन् अवसरे उपप्रधानाचार्या श्रीयुता विनीता धवन वर्या विश्वासं प्राकटयत् यत् भविष्यकालेSपि एतादृशै: आयोजनै: छात्राणां मानस-पटलेषु जागृति: साहित्यिकी चेतना च सञ्जीवयिष्यते।







