विश्वविख्याते कण्वाश्रमे पुन: अभवत् संस्कृतगुञ्जनम्
परमार्थगुरुकुलकण्वाश्रमे सरलसंस्कृतसम्भाषणशिविरं सम्पन्नम्

परमार्थवैदिकगुरुकुले, कण्वाश्रमे, कोटद्वारे दशदिनात्मकं सरलसंस्कृतसंभाषणशिविरं सम्पन्नम् । छात्रेभ्यः सरलपद्धत्या संस्कृतशिक्षायाः उद्देश्येन एतत् शिविरं संस्कृतभारती-कोटद्वारं तथा परमार्थवैदिकगुरुकुल-कण्वाश्रम: इत्येतयोः संयुक्ततत्त्वावधाने आयोजितम्।

समापनसमारोहे डॉ. रमाकान्तः कुकरेती, सेवानिवृत्तप्रधानाचार्यः, संस्कृतभारतीकोटद्वारनगराध्यक्षः, मुख्यातिथिरूपेण उपस्थितः। मुख्यशिक्षकः कुलदीपः मैन्दोला, मनमोहनः नौटियालः (प्रधानाचार्यः, परमार्थवैदिकगुरुकुलं), राकेशः कण्डवालः (योगशिक्षकः), सिद्धार्थः नैथानी, प्रशान्तः जोशी, विकासः, अम्बेशः पन्तः, प्रवीणः थापाः, श्वेता रावत:, सुदीपः थपलियालः, सुभाषः, रावताचार्यः च गुरुकुलस्य अध्यापकाः च सपरिवारं सप्ततिः छात्राः च उपस्थिताः आसन्।

छात्रेषु वेदान्तः, अनिलः, हनुगिरिः, अनुरागः, दिव्यांशः च स्वदशदिनानुभवं संस्कृतभाषायाम् एव सप्रेमम् उक्तवन्त: ।
श्रीमनमोहनकाला विस्तरेण कथयामास यत् — कण्वाश्रम: इत्यस्य नाम्नः कारणम् कण्वऋषेः तपोभूमिः अस्ति, शकुन्तलायाः पुत्रस्य भरतस्य नाम्ना ‘भारत’ इत्यपि नाम जातम्। राजाविक्रमादित्यस्य भ्रात्रा भर्तृहरिणा निर्मिता पैडिः ‘हरकी पैड़ी’ इत्युच्यते, यतो हरिद्वारस्य नाम प्रसिद्धं जातम्।
डॉ. रमाकान्तः कुकरेती उक्तवान् यत्— “पुस्तकेभ्यः वार्षिकं पाठ्यक्रमं पठित्वा अध्ययनं क्रियते, किन्तु संस्कृतभारत्याः मतानुसारं केवलं दशसु दिनेषु द्वौ घण्टौ प्रतिदिनं अभ्यासेन वयं संस्कृतम् अधिगन्तुं शक्नुमः।”

अम्बेशः पन्तः उक्तवान् यत् – “अद्य समाजः संस्कृतभाषां प्रति आकृष्टः दृश्यते। अस्यां भाषायां अस्माकं सर्वसमृद्धि: अन्तर्भूता अस्ति, अतः संस्कृताध्ययनं आवश्यकम्। एषा अस्माकं दायित्वयुक्ता भाषा यत् संस्कृतं समाजे व्याप्तं कुर्मः।”
प्रवीणः थापः उक्तवान् – “संस्कृतं एव संस्कृतेः मूलम्। कण्वाश्रमस्य संस्कृति: विश्वविख्याता आसीत्, गर्वस्य विषयः यत् अद्यापि कण्वाश्रमे संस्कृतं जीवति।”
संस्कृतभारती संस्था 1981 इत्यस्मिन् वर्षे स्थापिता, भाषायाः लोकोपयोगी स्वरूपे पुनर्जीवनं दातुं समर्पिता अस्ति। एषा संस्था संवादशिविरादिप्रयोगैः लक्षाणां व्यक्तीनां पर्यन्तं भाषाप्रसारं कृतवती।
संस्था विश्वे दशदिनात्मकानि संवादशिविराणि आयोजयति, यया प्रारम्भिकस्तरे अपि जनाः भाषायाः ज्ञानं प्राप्नुवन्ति। पत्राचारपाठ्यक्रमाः, शिक्षकप्रशिक्षणम्, गीताशिक्षणकेन्द्राणि, बालकेन्द्राणि, संभाषणसंदेशम् इत्याख्यां लोकप्रियपत्रिकां च प्रकाशयति।

संस्था अद्यावधि 26 राष्ट्रेषु 4500 केन्द्राणि स्थाप्य, एककोटि अधिकजनान् संस्कृतशिक्षां प्रदत्तवती। दशसहस्राधिकानि ‘संस्कृतगृहाणि’ अपि स्थापितानि, यत्र सर्वे सदस्याः केवलं संस्कृतेन संवादं कुर्वन्ति।
भारतदेशे कर्नाटकराज्ये मत्तूरु, होसाहल्ली तथा मध्यप्रदेशे झीरी, मोहद इत्यादिषु षट् ग्रामाः ‘संस्कृतग्राम’रूपेण विख्याताः, यत्र सर्वे जनाः केवलं संस्कृतेनैव व्यवहारं कुर्वन्ति।







