उत्तराखण्डकण्वनगरीकोटद्वार

मालिनीतटे वृक्षारोपणं हरितसेनादेवभूमि-उत्तराखण्डद्वारा

उत्तराखण्डे प्रकृतिसंरक्षणाय समर्पितपर्व अस्ति "हरेला"

“यदि वयं पृथिव्याः रक्षां करिष्यामः तर्हि सा सर्वदा अस्मभ्यं पोषकतत्त्वानि दास्यति” अनया भावनया देवभूमौ उत्तराखण्डे प्रकृतिसंरक्षणाय समर्पितं लोकपर्व हरेलापर्व बुधवासरे अत्यन्तं श्रद्धया आचरितम्।

श्रीमतीप्रणिता-कण्डवाल-नेतृत्वे “ग्रीन-आर्मी-देवभूमिः उत्तराखण्डः” इत्यस्य स्वयंसेवकैः मालिनीसेतुमोटाढाङ्ग-समीपे एक: वृहद्वृक्षारोपणकार्यक्रम: सम्यक्तया आयोजितम्।

अस्मिन् वृक्षारोपणकार्यक्रमे पर्यावरणमित्रैः संयुक्तं मालिनीसेतो: अग्रे मार्गपार्श्वेषु नानाविधानां वृक्षाणां रोपणं सम्पन्नम्। रोपितवृक्षेषु जकरंदा, केसिया गुलका, फ्यूशिया बहेड़ा, जम्बु: च प्रमुखाः सन्ति। सर्वे स्वयंसेवकाः वृक्षवत् एषां निरन्तरं संरक्षणं कर्तुं दृढसंकल्पं कृतवन्तः।

हरेलापर्व उत्तराखण्डस्य लोकेषु अत्यन्तं प्रियः अस्ति। अयं पर्व वृक्षारोपणेन पावनधरां हरितं समृद्धं च कर्तुं, पर्यावरणस्य रक्षणाय, प्रकृतेः पूजनाय च समर्पितः अस्ति। हरेला इति वृक्षारोपणेन मानवस्य च पर्यावरणस्य च पारस्परिकसंबन्धस्य अपूर्वं प्रतीकम् अस्ति। एषः दिवसः समृद्धेः, दीर्घायुषः च कामनां सूचयति, लोकसंस्कृत्या सह संबद्धः एकः महत्वपूर्णः पर्वः च अस्ति।

एषः दिवसः प्रकृतिं प्रति समर्पितजीवानां सर्वेषां प्रकृतिप्रेमिणां परिश्रमस्य संरक्षणभावस्य च कृतज्ञतासूचकः अवसरः अस्ति।

प्रकृतेः संरक्षणकार्येषु सर्वेषां एव जनानां सहभागिता अत्यावश्यकम् वर्तते । प्रकृतेः संरक्षणं केवलं व्यक्तिगतकर्तव्यम् न, अपि तु अस्माकं सर्वेषां सामूहिककर्तव्यम् यत् अस्माभि: सर्वै: मिलित्वा पूर्णेन समर्पणेन पालनं कर्तव्यम्।

कार्यक्रमे श्रीमती प्रणिता कण्डवाल:, श्रीः शिवम नेगी,
उत्कर्षनेगी, तथैव स्वयंसेवकाः – विनयरावतः, सत्येन्द्रसिंहगुसैं, सुमितसिंहनेगी, अरुणकुमारखंतवालः इत्यादयः अपि कार्यक्रमे भागं गृहीतवन्तः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button