उत्तराखण्डकण्वनगरीकोटद्वार

समाजे संस्कृतम् आनेतुं सम्भाषणम् आवश्यकं – “रोशनगौड:”

परमार्थवैदिकगुरुकुले कण्वाश्रमे कोटद्वारे हरेलापर्वावसरे ऋषिकुमारै: सह अभवत् वृक्षारोपणम्

संस्कृतभारत्या: तत्त्वावधानने दशदिनात्मकस्य सरलसंस्कृतसंभाषणशिविरस्य चतुर्थदिने हरेलापर्वपावनसंदर्भे परमार्थवैदिकगुरुकुले कण्वाश्रमे कोटद्वारे वृक्षारोपणविशेषः उत्सवः सप्रेम्णा, सौहार्देन च आयोजितः अभवत्।

एतस्मिन् सन्दर्भे गुरुकुलपरिसरे जम्बु:, लीचिः, नीम्बुकं च फलद्रुमाणां वृक्षारोपणं सम्पन्नम्। सर्वे छात्राः, शिक्षकवर्गः च मिलित्वा प्रकृतिप्रेम्णा, उल्लासपूर्वकं, हरेलापर्वणं उत्सवस्वरूपेण आचरितवन्तः। वृक्षारोपणानन्तरं सर्वे वृक्षानां संरक्षणं प्रति संकल्पं कृतवन्तः।

तदनन्तरं छात्रेभ्यः सरलपद्धत्या संस्कृतशब्दानां ज्ञानम्, तेषां प्रयोगः च दत्तः। प्रचलिते संस्कृतशिविरे संस्कृतभारत्या: प्रान्तसदस्य: वरिष्ठकार्यकर्त्रा श्रीरोशनगौडवर्येण सम्भाषणार्थिन: सम्बोधिता: । तै: कथितं यत् समाजे संस्कृतम् आनेतुं सम्भाषणम् आवश्यकम् इति। तत्रैव नगराध्यक्षेण डॉ० रमाकान्तकुकरेतीवर्येण संस्कृतसम्भाषणेन सह उक्तं यत् वृक्षारोपणम् अस्माकं जीवनस्य अभिन्न: अङ्ग: अस्ति । परोपकाराय वृक्षारोपणम् आवश्यकम् । विशेषे वृक्षारोपणकार्यक्रमे नमनभटनागर: यशवेदी उपस्थितौ अभवताम् । तौ अपि संस्कृतसम्भाषणं दृष्ट्वा प्रभावितौ जातौ ।

शिक्षकः कुलदीपः मैन्दोलाः तथा सिद्धार्थः नैथानी प्रशिक्षकः च सरलवार्तालापाधारितानि संस्कृतवाक्यानि प्रयोगेण छात्रान् संस्कृतसंभाषणकौशलम् प्रति शिक्षितवन्तौ। संवादरूपेण, प्रश्नोत्तरसहितं शिक्षणं छात्रेभ्यः सुप्रत्यक्षतया गृहीतम् । एतस्मिन् सन्दर्भे विशेषरूपेण आचार्यः मनमोहनः नौटियालः, रोशनः गौडः, इतेन्द्रः नैथानी इत्यादयः अपि गौरवपूर्वकं उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button