डॉ॰ वाचस्पतिमैठाणीवर्यस्य षट्षष्टितमजयन्त्या: उपलक्ष्ये अखिलभारतीया अन्तर्जालसंस्कृतज्ञानस्पर्धा प्रारभत्।
🔵राष्ट्रियसंयोजकेन डा.कैलाशपतिमैठाणीवर्येण समायोज्यते स्पर्धा🔵 🔵।। प्रतियोगितासु गीतायाः श्लोकपाठः, स्तोत्रगानम्, रघुवंशमहाकाव्यश्लोकपाठः, सुभाषितगानम्, संस्कृतनृत्यम् च सामान्यज्ञानस्पर्धा च आयोज्यन्ते। जुलै २५, २०२५ दिनाङ्कपर्यन्तं प्रस्तुति: समर्पणीया । फेसबुक्–दर्शकसंख्यया अपि प्राप्तव्यम् अधिकं अङ्कफलम् च अगस्त् १४, २०२५ दिनाङ्के परिणामस्य घोषणा भविष्यति।।🔵

प्रख्यातशिक्षाविद: डॉ॰ वाचस्पतिमैठाणीवर्यस्य जयन्त्याः उपलक्ष्ये अन्तर्जालीय–संस्कृत–ज्ञान–स्पर्धायाः कृते पञ्जीकरणप्रक्रिया आरब्धा अभवत्। अन्तर्जालपत्रपृष्ठे एव पञ्जीकरणं सम्भवम्, वरिष्ठनागरिकाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति। संस्कृतभाषायां स्वपरिचयसहितं द्विमिनट्–चतुर्मिनिट् यावत् सञ्चालितं चलच्चित्रं व्हाट्सएप्–समूहेषु प्रेषणीयम्। प्रतियोगितासु गीतायाः श्लोकपाठः, स्तोत्रगानम्, रघुवंशमहाकाव्यश्लोकपाठः, सुभाषितगानम्, संस्कृतनृत्यम् च सामान्यज्ञानस्पर्धा च आयोज्यन्ते। जुलै २५, २०२५ दिनाङ्कपर्यन्तं प्रस्तुति: समर्पणीया । फेसबुक्–दर्शकसंख्यया अपि प्राप्तव्यम् अधिकं अङ्कफलम् च अगस्त् १४, २०२५ दिनाङ्के परिणामस्य घोषणा भविष्यति। सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि प्रदीयन्ते।

डॉ॰ वाचस्पतिमैठानीस्मृतिमञ्चेन अखिलभारतीयस्तरीय- अन्तर्जाल–संस्कृत–ज्ञान–स्पर्धायाः पञ्जीकरणं सम्प्रति प्रवृत्तम् अस्ति। संरक्षकमण्डलस्य सदस्यः च प्रतियोगितायाः राष्ट्रियसंयोजकः श्रीमान् कैलाशपति मैठाणी इत्यनेन निगद्यते यत्, गतवर्षवत्, अस्मिन वर्षे अपि राष्ट्रपतिपुरस्कारविभूषितः शिक्षाविद् स्वर्गीयः डॉ॰ वाचस्पतिमैठाणीमहोदयस्य षट्षष्टितमजयन्त्याः उपलक्ष्ये, देववाणीसंस्कृतस्य प्रचारप्रसाराय, देवसंस्कृतेः सनातनधर्मस्य च संरक्षणाय, छात्र–छात्राणां प्रतिभाविकासाय च, मञ्चेन अयं आयोजनं क्रियते। वरिष्ठनागरिकानाम् अपि अत्र सहभागितासम्भावना इत्येतत् मञ्चस्य अपि गौरवस्य विषयः।
गीता–श्लोक–पाठे ९–१४ वर्षपर्यन्तं, स्तोत्रगाने १५–२४ वर्षपर्यन्तं, रघुवंश–महाकाव्य–प्रथमसर्ग–श्लोक–पाठे २५–५० वर्षपर्यन्तं, सुभाषितगाने ५१ वर्षात् अधिकवयस्काः भागं गृह्णीयुः। संस्कृत–नृत्य–प्रतियोगायां ९–१८ वर्षवयस्काः बालकबालिकाः भागं गृह्णीयुः। प्रत्येकस्य प्रतिभागिनः न्यूनातिन्यूनं द्विमिनिट् यावत्, अधिकतमं चतुर्मिनिट् यावत्, स्वपरिचयसहितं चलच्चित्रं सुशोभनरूपेण व्हाट्सएप्–समूहेषु प्रेषणीयम्। पञ्चसु प्रतियोगासु अपि, न्यायाधीशैः निर्णयात् अतिरिक्तम्, प्रतिभागिनः फेसबुक्–पृष्ठे दर्शकसंख्यां वर्धयित्वा १–२० पर्यन्तं अङ्कानि लब्धुं शक्नुवन्ति। फेसबुक्–दर्शकाः (views), लाइक्, शेयर्, टिप्पणी इत्यादय: ५ अगस्त् २०२५ पर्यन्तं गणनीयाः भविष्यन्ति।
पञ्जीकरण–लिङ्काः (Registration Links): सन्ति–
गीता श्लोकपाठः — https://forms.gle/3WwQ7FpMuKwTdZoJ7
स्तोत्रगानम् — https://forms.gle/79Sxze3cwLkvCDcC9
रघुवंश श्लोकपाठः — https://forms.gle/n4yPiwoJtiCgkPmh7
सुभाषितगानम् — https://forms.gle/F9L69dbMr3mMNF9o9
संस्कृतनृत्यम् — https://forms.gle/mWNu1AHRtxiy7aTb9
सामान्यज्ञान–स्पर्धा — https://forms.gle/rp2999xHh2GoAFgu9
WhatsApp–संख्या 9412053129 (अत्र “हरि: ओम्” इति लिखित्वा प्रेषणेन सर्वा विवरणानि लभ्यन्ते) वेबसाइट्:https://drmaithani28.wixsite.com/drmaithani / प्रतियोगायाः परिणामघोषणा अगस्त् १४ दिनाङ्के क्रियते। प्रथमं, द्वितीयं, तृतीयं स्थानं प्राप्तवन्तः प्रतिभागिनः, २८ अगस्त् २०२५ दिनाङ्के जयन्त्याः अवसरेस्मिन् पुरस्कृताः भविष्यन्ति। सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि तेषां निर्दिष्टपत्त्रिकानुसारं प्रेषितानि भविष्यन्ति।
सामान्यज्ञान–स्पर्धायां कक्षा ३–१२ पर्यन्तं छात्र–छात्राः भागं गृह्णीयुः। तस्याः पञ्जीकरणस्य अन्तिमतिथि — २५ अगस्त् २०२५ दिनांकेपरीक्षा (गूगल क्विज् द्वारा) — २६ अगस्त् २०२५
दिनांके प्रमाणपत्रम् ईमेल्द्वारा प्रदास्यते।







