नैनीताल

जीविकाप्राप्तये मानसिक- सक्रियता अत्यावश्यकी: प्रो.एम.सी.पाण्डे

वृत्तप्रेषकः-डॉ. मूलचन्द्रशुक्लः। रामनगरम्। मुख्यातिथिना प्राचार्येण प्रोफेसर एम. सी. पाण्डे वर्येण युवासंवादकार्यक्रमे उच्यते यत् जीविकाप्राप्तये मानसिकसक्रियता अत्यावश्यकी वरीवर्ति।पी.एन.जी. राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरस्य कैरियर काउंसलिंग प्रकोष्ठद्वारा छात्रछात्राभ्य उद्योगावसरलाभाय (काउंसलिंग) कार्यक्रमः समायोजितः। विज्ञान- सङ्कायस्य विद्यार्थिभिः सह अजीम प्रेमजी फाउंडेशन द्वारा युवा-संवाद-श्रृंखलाक्रमे छात्रछात्राणां मध्ये संवादो विहितः। अस्य संवादस्योद्देश्यं विद्यार्थिषु व्यक्तित्त्वविकासः, मानसिकसक्रियता,निर्णयक्षमता इत्यादीनां विकासकरणार्थमासीत्। उद्योगप्राप्त्यर्थं स्वस्य मानसिकयोग्यतया सह तत्र सम्यक् अवधानमपि आवश्यकमस्ति।अनेन माध्यमेन लिङ्गम्, जीवनमूल्यम्,सहभागिता, सामाजिकभागीदारी,समुचित -भागीदारी इत्याद्यर्थं छात्रछात्राभ्यः प्रोत्साहनं परमावश्यकं विद्यते।अद्यतन- विचारश्रृंखलायां विज्ञानसङ्कायतः प्रो. जे.एस.नेगी, ड़ॉ.मनोज नैनवालः, कैरियर काउंसलिंग प्रकोष्ठस्य संयोजकः डॉ.अनुराग श्रीवास्तवः समुपस्थिता आसन्।महाविद्यालय स्य प्राचार्यः प्रो.एम.सी.पाण्डे महोदयः समस्तछात्रछात्राभ्यो भविष्ये उद्योगलाभाय शुभकामनाप्रदानपुरस्सरं प्रेरितवान्।तत्र तनिशा, अफीफा,प्रियंका,नीलम तिवारी, ललित चंद्रा, मिथलेश इत्यादयः त्रिषष्टिः (63) विद्यार्थिनः प्रतिभागितामकुर्वन्।कार्यक्रमस्य सञ्चालनं अजीम प्रेमजी फाउंडेशन इत्यस्य सहयोगी आदित्य कोटबागी इत्यनेन कृतम्।*

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button