संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डनैनीताल

शिक्षायाः क्षेत्रे उत्कृष्टोल्लेखनीययोगदानेप्राचार्यः प्रो.एम.सी.पाण्डे “उत्तराखण्ड-आईकॉन-अवार्ड 2024” इत्यनेन सम्मानेन सभाजितः।

वार्ताप्रेषकः-डॉ. मूलचन्द्र-शुक्लः।रामनगरम्।
पीएनजीराजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरस्य प्राचार्यः प्रोफेसर एम.सी.पाण्डे महोदयः शिक्षायाः क्षेत्रे उत्कृष्ट-उल्लेखनीय-कार्यार्थम् “उत्तराखण्ड आईकॉन अवार्ड 2024” इत्यनेन सम्मानेन सभाजितः।सम्माननमिदं प्रो.पाण्डेमहोदयेभ्यः उत्तराखण्ड बुक ऑफ रिकॉर्ड्स इत्यस्य सम्पादकेन डॉ.प्रमोद-कुमार-अग्रवाल- गोल्डीमहोदयेन स्वयमेव महाविद्यालयमागत्य प्रदत्तम्। डॉ. अग्रवालमहोदयः प्राचार्य- प्रो.पाण्डे महोदयेभ्यो वर्धापनानि प्रयच्छन् अवोचत् यत् पाण्डेमहोदयस्य गुणात्मकशोधः, विविधलेखाः, समीक्षा, प्रशासनिक-कार्यदक्षता, शैक्षणिक-उन्नयनं कर्त्तव्यनिष्ठा च इत्यादीनि वैविध्यपूर्ण-विशिष्ट-अवदानानि अत्यन्तं प्रशंसापात्राणि वरीवृत्यन्ते। अस्मिन्नवसरे कुलानुशासकः प्रो.आर.डी.सिंहः, डॉ.आर.एस.कन्नौजिया, प्रोफे.एस.एस.मौर्यः, प्रोफे.जे.एस.नेगी, डॉ.प्रमोदजोशी, डॉ. शरदभट्टः, डॉ.निवेदिता अवस्थी, डॉ.योगेशचन्द्रः, डॉ.अल्का, डॉ.मूलचन्द्र-शुक्लः, डॉ.दीपकखाती, डॉ.डी.एन.जोशी, गोविन्दसिंहजङ्गपाङ्गी इत्यादयः प्राध्यापकाः शिक्षणेतरकार्मिकाश्च प्रो.पाण्डेमहोदयेभ्यः मुदितमनसा मङ्गलकामाः वर्धापनानि च दत्तवन्तः। कार्यक्रमस्य सञ्चालनं डॉ.मूलचन्द्र-शुक्लेन विहितम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button