संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

द्वितीयराजभाषायां उत्तराखण्डे संस्कृतेन नामोल्लेखनाय शासनादेश:

मुख्यसचिवराधारतूडीद्वारा संस्कृतनामोल्लेखनाय प्रदत्त: आदेश: । 2009 तमे वर्षे भाषाधिनियमे संस्कृतम् उत्तराखण्डस्य द्वितीयाराजभाषारुपेण समागतं। उत्तराखण्डसंस्कृताकादम्या: सचिवस्य डा.बुद्धदेवशर्मण: प्रस्तावे मुख्यमन्त्री डा.रमेशपोखरियालनिश्शंकद्वारा द्वितीया राजभाषा उद्घोषिता आसीत् ।  ।।उत्तराखण्डराज्ये संस्कृतभाषायाः व्यापकप्रवर्धनं दृष्ट्वा उक्तभाषायाः प्रोत्साहनार्थं च सर्वकारेण यथायोग्यं विचार्य हिन्दीसहितं सर्वेषु बसस्थानकेषु, रेलस्थानकेषु, विमानस्थानकेषु, राज्यस्य प्रवेशद्वारेषु इत्यादिषु हिन्दीभाषया सह उत्तराखण्डराज्यस्य संस्कृतभाषायां फलकानि, नामफलकानि च स्थापनाय अपि निर्णयः कृतः ।।

उत्तराखण्ड: देवभूमि: इति सर्वे विजानन्ति अत: देवभूमौ उत्तराखण्डे प्रदेशस्य देवभाषा कथं पृष्ठे स्यात् । उत्तराखण्डस्य द्वितीया राजभाषा वर्तते संस्कृतभाषा अत: शासनेन अस्यां भाषायां पुन: उल्लेखनम् आरब्धम्। विदितम् अस्ति यत् 2009 तमे वर्षे डा.रमेशपोखरियालनिश्शंकेन उत्तराखण्डस्य द्वितीया राजभाषा निर्घोषिता । उत्तराखण्डसंस्कृत-अकादम्या: सचिवस्य डा.बुद्धदेवशर्मण: समितेरनुसारेण भाषाया: प्रकल्प: अग्रे समायात: । अधुना संस्कृतशिक्षानुभाग: संस्कृतशिक्षामन्त्री संस्कृतसचिव: द्वितीयराजभाषाया: विकासे पुनर्कटिबद्धा: सन्ति । शुक्रवासरे एकवारं पुन: अस्या: भाषाया: कृते नवसमागता मुख्यसचिववर्यया राधारतूडीद्वारा शासनादेश: संस्कृतभाषाया: उल्लेखनाय समादिष्ट: यत् संस्कृतभाषाया: प्रोत्साहनसन्दर्भे सर्वकारीक्षेत्रेषु संस्कृतेन उल्लेख: स्यात् । उत्तराखण्डशासनान्तर्गतं संस्कृतशिक्षानुभागेनापि अस्मिन्सन्दर्भे आदेश: अग्रे समादिष्ट: । आदेशे अस्ति यत् उत्तराखण्डराजभाषाया: अधिनियमेन २००९ तमे वर्षे ‘संस्कृत’-भाषा राज्यस्य द्वितीया राजभाषा इति घोषिता अस्ति । संस्कृतभाषायाः प्रचारः, उत्थानः, व्यापकः प्रचारः च राज्यसर्वकारस्य प्राथमिकता अस्ति । एतत् उद्देश्यं मनसि कृत्वा ‘उत्तरखण्ड-संस्कृत-अकादमी’ स्थापिता ।

उत्तराखण्डराज्ये संस्कृतभाषायाः व्यापकप्रवर्धनं दृष्ट्वा उक्तभाषायाः प्रोत्साहनार्थं च सर्वकारः यथायोग्यं विचार्य हिन्दीसहितं सर्वेषु बसस्थानकेषु, रेलस्थानकेषु, विमानस्थानकेषु, राज्यस्य प्रवेशद्वारेषु इत्यादिषु हिन्दीभाषया सह उत्तरखण्डराज्यस्य संस्कृतभाषायां फलकानि, नामफलकानि च स्थापनाय अपि निर्णयः कृतः अस्ति ।

अतः अस्मिन् विषये विभागाधीनराज्यस्य सर्वेषु कार्यालयेषु, बसस्थानकेषु, रेलस्थानकेषु, विमानस्थानकेषु, प्रवेशद्वारेषु, सार्वजनिकस्थानेषु च हिन्दीभाषायाः अपि च संस्कृतभाषायाः प्रयोगः करणीयः इति मम निर्देशः अस्ति, कृपया सम्पूर्णं कुर्वन्तु नामफलकं/नामपट्टिकास्थापनसम्बद्धं कार्यं यथाशीघ्रं कृत्वा कृतस्य कार्यवाहीविषये सर्वकारं सूचयन्तु। तदर्थं उत्तराखण्डसंस्कृताकादमी, हरिद्वारतः संस्कृतानुवादार्थं साहाय्यं प्राप्तुं शक्यते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button