संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

⛰️💨💦 हिममयी जाता पर्वतराज्ञी मसूरी , वर्षद्वयानन्तरं जात: भृशं हिमपात: 🟡

युवराज: । हिमाचलप्रदेशस्य पश्चात् मसूर्यामपि वर्षद्वयस्य पश्चात् अतिशयहिमवर्षा जातास्ति , भूरि संख्यासु उत्तरभारतीया: पर्यटका: तत्र हिमक्रीडार्थं प्रयान्ति, मार्गेषु गम्यमानानि वाहनानि च हिमाधिक्येन स्खलन्ति सन्ति, स्थाने स्थाने पर्यटकानां वाहनानाम् अतिशयताकारणेन सुदीर्घ: मार्गावरोध: जाजायते। हिमपातसूचनया तत्र पर्यटका: हिमक्रीडाया: आनन्दार्थं गच्छन्तः सन्ति, येन पर्यटनव्यवसायसम्बद्धानां जनानां मुखमानसेषु दृश्यते प्रफुल्लता। ध्येयमस्ति यत् वृष्ट्या सह हिमपातेन तत्र मसूर्यां शीतलहर्या: प्रकोप: अपि समेधित: अस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button