उत्तराखण्डपौड़ी

मुख्यशिक्षाधिकारी च जनपदशिक्षाधिकारी राज्ये प्रतिभागाय छात्रेभ्यः शुभकामनां प्रेषितवन्तौ

संयोजकः च सहसंयोजकः च मार्गदर्शनाय सम्मानपूर्वकं स्मृतिचिह्नं दत्तवन्तौ।

उत्तराखण्डसंस्कृताकादमीद्वारा जनपदस्तरीयानां संस्कृतछात्रप्रतियोगितानां मुख्यशिक्षाधिकारी श्री नागेन्द्र वर्त्वालः च जनपदशिक्षाधिकारी श्री रणजीतसिंहनेगी मार्गदर्शकौ आस्ताम् च संस्कृतछात्रप्रतियोगितानां जनपदसंयोजकः श्री रोशनगौडः तथा सहसंयोजकः डॉ. रमाकान्तकुकरेती प्रतियोगितायाः समापनाय सम्मानपूर्वकं अधिकारिणौ स्मृतिचिनह्नं प्रदानं कृतवन्तौ।

प्रतियोगितायाः माध्यमेन संस्कृतभाषायाः प्रचारप्रसारे महत्वपूर्णं योगदानं दत्ते श्री वर्त्वालस्य सम्मानं स्मृतिचिह्नप्रदानेन कृतम्। श्री वर्त्वालः अस्मिन अवसरे विद्यार्थिनं संस्कृतभाषायाः महत्त्वं च अध्ययनस्य आवश्यकतायां च बलं दत्तवान्।

अकादमीद्वारा आयोजितायां जनपदस्तरीया- संस्कृत- छात्रप्रतियोगितायां विजेतृछात्रेभ्यः मुख्यशिक्षाधिकारी पौडी श्रीनागेन्द्रवर्त्वालः तथा जनपदशिक्षाधिकारी पौड़ी श्री रणजीतसिंहनेगी राज्यस्तरीयप्रतियोगितायाम् प्रतिभागार्थं शुभकामनां प्रेषितवन्तौ , ते उक्तवन्तौ यत् संस्कृतं न केवलं अस्माकं सांस्कृतिकसमृद्धे: भागः अस्ति, किन्तु एतत् छात्रेभ्यः मानसिकविकासे अपि महत्वपूर्णं योगदानं दत्ते। प्रेरयन् प्रोक्तं यत् राज्यस्तरीये अपि स्वप्रतिभां प्रदर्शयितुं कठिनपरिश्रमं समर्पणं च कर्तव्यम् इति शुभकामनां प्रेषितवन्तौ।

जनपदशिक्षाधिकारी श्री रणजीतसिंहनेगी अपि छात्रेभ्यः उज्ज्वलभविष्यस्य कामनां कृतवान्, प्रतियोगितायाः आयोजनं छात्रेभ्यः स्वप्रतिभां प्रदर्शयितुं अवसरं प्रदानं करोति एव, आत्मविश्वासं च वर्द्धयति। तेन सर्वे विजेतार: छात्राः आग्रहिताः यत् राज्यस्तरीये अपि स्वप्रतिभां उच्चतमस्तरे प्रदर्शनं कर्तव्यम्। संस्कार:, शिक्षा, च द्वयोरपि राष्ट्रनिर्माणे संस्कृतस्य योगदानं अत्यधिकं महत्त्वपूर्णं अस्ति। तेन प्रतियोगितायाः आयोजनस्य प्रशंसा कृता, भविष्ये च एतादृशप्रतियोगितायाः आयोजनं आवश्यकं इति बलं दत्तम्। विजेतृछात्रेभ्यः उत्कृष्टप्रदर्शनाय पुरस्काराय च तान् राज्यस्तरीयप्रतियोगितायाम् अग्रे गन्तुं उत्साहितम्। प्रतियोगिता छात्रेभ्यः संस्कृतभाषां प्रति रुचिं जागरूकतां च वर्द्धयति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button